सर्वैकान्तसुखः कालो नात्यर्थं ह्युष्णशीतलः
उत्तिष्ठंति पृथिव्यां वै तेषां ध्यानै रसातलात्
असंस्कार्यैः शरीरैस्तु प्रजास्ताः स्थिरयौवनाः
समं जन्म च रूपं च प्रीयंते चैव ताः समाः
निर्विशेषाश्च ताः सर्वा रूपायुःशिल्पचेष्टितैः
अप्रवृत्तिः कृतद्वारे कर्मणः शुभपापयोः
अनिच्छाद्वेषयुक्तास्ता वर्त्तयन्ति परस्परम्
सुखप्राया विशोकाश्च उत्पद्यंते कृते युगे
मनसा विषयस्तासां निरीहाणां प्रवर्तते
नाति हिंसति वान्योन्यं नानुगृङ्णंति वै तदा
पवृत्तं द्वापरे युद्धं स्तेयमेव कलौ युगे
कलिस्तमस्तु विज्ञेयं गुणवृत्तं गुमेषु तत्
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम्
चत्वार्यैव सहस्राणि वर्षाणां मोनुषाणि तु
ततः कृत्युगे तस्मिन् ससंध्यांशे गते तदा
सन्ध्यायास्तु व्यतीतायाः सांध्यः कालो युगस्य सः
एवं कृतयुगे तस्मिन्निश्शेषेंतर्दधे तदा
सिद्धिरन्ययुगे तस्मिंस्त्रेताख्ये ऽनंतरे कृतात्
अष्टौ ताः क्रमयोगेन सिद्धयो यांति संक्षयम्
मन्वंतरेषु सर्वेषु चतुर्युगविभागशः
संध्या कृतस्य पादेन संक्षेपेण वशात्ततः
हीयंते युगधर्मास्ते तपःश्रुतबलायुषः
त्रेतायुगसमुत्पत्तिः सांशा च ऋषिसत्तमाः
कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रसुखे तदा
तस्यां सिद्धौ प्रनष्टायामन्या सिद्धिरजायत
मेघेभ्यः स्तनयितृभ्यः प्रवृत्तं पृष्टिसर्जनम्
प्रजा आसंस्ततस्तासां वृक्षश्च गृह संज्ञिताः
वर्त्तयंतेस्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः
संगलोलात्मको भावस्तदा ह्याकस्मिको ऽभवत्
तदा तद्वै न भवति पुनर्युगबलेन तु