क्षिप्रमत्युष्णमक्लिष्टं दद्यादन्नं बुभुक्षते
तरुणादित्यसंकाशं विमानं हंसवाहनम्
अन्नदानात्परं दानं नान्यत्किञ्चित्तु विद्यते
जीवदानात्परं दानं नान्यत्किञ्चन विद्यते
अन्नं प्रजापतिः साक्षात्ते न सर्वमिदं ततम्
यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा
प्रतिश्रयं च यो दद्यादतिथिब्यः कृताञ्जलिः
सर्वाण्येतानि यो दद्यात्पृथिव्यामेकराड्भवेत्
दानानि परमो धर्मः सद्भिः सत्कृत्य पूजितः
क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः
श्राद्धकल्पे दानप्रशंसा नाम षोडशो ऽध्यायः
काम्यं नैमित्तिकाजस्रं श्राद्धकर्मणि नित्यशः
कृष्णपक्षे वरिष्ठा हि पूर्वाखण्डलदेवता
आद्यापूपैः सदाकार्या मांसैरन्या सदा भवेत्
अत्रापीष्टं पितॄणां वै नित्यमेव विधीयते
आसु श्राद्धं बुधः कुर्वन्सर्वस्वेनापि नित्यशः
पितरः पर्वकालेषु तिथिकालेषु देवताः
मासांते प्रतिगच्छेयुरष्टकासु ह्यपूजिताः
पूजकानां समुत्कर्षो नास्तिकानामधोगतिः
पुष्टिं प्रजां स्मृतिं मेधां पुत्रानैश्वर्यमेव च
प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति
वरार्थिनां तृतीया तु शत्रुघ्नी पापनाशिनी
पञ्चम्यां चापिकुर्वाणः प्राप्नोति महतीं श्रियम्
कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः
संपूर्णामृद्धिमाप्नोति यो ऽष्टम्यां कुरुते नरः
कुर्वन्दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात्
एकादश्यां परं दानमैश्वर्य सततं तथा
प्रजावृद्धिं पशून्मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम्
युवानश्च गृहे यस्य मृतास्तेभ्यः प्रदापयेत्
अमावास्यां प्रयत्नेन श्राद्धं कुर्यात्सदा शुचिः