स्वास्तीर्णं शयनं दत्त्वा श्राद्धेरत्नविभूषितम्
अस्मिंल्लोके च संपन्नं स्यन्दनं च सुवाहनैः
पर्णकौशेयपट्टोर्णे तथा प्रावारकंबलौ
दद्यादेतानि विप्राणां भोजयित्वा यथाविधि
बहुभार्याः सुरूपाश्च पुत्रा भृत्याश्च किङ्कराः
कौशेयं क्षौमकार्पासं दुकूलं गहनं तथा
अलक्ष्मीं नाशयन्त्येते तमः सूर्योदयो यथा
वासो हि सर्वदैवत्ये सर्वदेवैरभिष्टुतम्
तस्माद्वस्त्राणि देयानि श्राद्धकाले तु नित्यशः
नित्यश्राद्धे तु यो दद्यात्प्रयतस्तत्परायणः
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
कृसर मधुसर्पिश्च पयः पायसमेव च
दधिगव्यमसंसृष्टं भक्ष्यान्नानाविधांस्तथा
घृतेन भोजयेद्विप्रान्घृतं भूमौ समुत्सृजोत्
ओदनं पायसं सर्पिर्मधुमूलफलानि च
शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः
सक्तुलाजास्तथापूपाः कुल्माषा व्यञ्जनैः सह
श्राद्धेष्वेतानि यो दद्यात्पद्मं स लभते निधिम्
सर्वभोगानवाप्नोति पूज्यते च दिवं गतः
भोजनाग्रासनं दत्त्वा अतिथिभ्यः कृताञ्जलिः
क्षिप्रमत्युष्णमक्लिष्टं दद्यादन्नं बुभुक्षते
तरुणादित्यसंकाशं विमानं हंसवाहनम्
अन्नदानात्परं दानं नान्यत्किञ्चित्तु विद्यते
जीवदानात्परं दानं नान्यत्किञ्चन विद्यते
अन्नं प्रजापतिः साक्षात्ते न सर्वमिदं ततम्
यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा
प्रतिश्रयं च यो दद्यादतिथिब्यः कृताञ्जलिः
सर्वाण्येतानि यो दद्यात्पृथिव्यामेकराड्भवेत्
दानानि परमो धर्मः सद्भिः सत्कृत्य पूजितः
क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः