धेनुं श्राद्धे तु यो दद्याद्गृष्टिं कुम्भापदोहनीम्
दद्याद्यः शिशिरे चाग्निं बहुकाष्ठं प्रयत्नतः
इन्धनानि तु यो दद्या द्द्विजेभ्यः शिशिरागमे
सुरभीणि च माल्यानि गन्धवन्ति तथैव च
गन्धमाल्यं महात्मानं सुखानि विविधानि च
शयनासनयानानि भूमयो वाहनानि च
श्राद्धकाले गुणवति विप्रे वै समुपस्थिते
सर्पिःपूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत्
श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकफलं लभेत्
कूपारामतडागानि क्षेत्रगोष्ठगृहाणि च
स्वास्तीर्णं शयनं दत्त्वा श्राद्धेरत्नविभूषितम्
अस्मिंल्लोके च संपन्नं स्यन्दनं च सुवाहनैः
पर्णकौशेयपट्टोर्णे तथा प्रावारकंबलौ
दद्यादेतानि विप्राणां भोजयित्वा यथाविधि
बहुभार्याः सुरूपाश्च पुत्रा भृत्याश्च किङ्कराः
कौशेयं क्षौमकार्पासं दुकूलं गहनं तथा
अलक्ष्मीं नाशयन्त्येते तमः सूर्योदयो यथा
वासो हि सर्वदैवत्ये सर्वदेवैरभिष्टुतम्
तस्माद्वस्त्राणि देयानि श्राद्धकाले तु नित्यशः
नित्यश्राद्धे तु यो दद्यात्प्रयतस्तत्परायणः
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते
कृसर मधुसर्पिश्च पयः पायसमेव च
दधिगव्यमसंसृष्टं भक्ष्यान्नानाविधांस्तथा
घृतेन भोजयेद्विप्रान्घृतं भूमौ समुत्सृजोत्
ओदनं पायसं सर्पिर्मधुमूलफलानि च
शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः
सक्तुलाजास्तथापूपाः कुल्माषा व्यञ्जनैः सह
श्राद्धेष्वेतानि यो दद्यात्पद्मं स लभते निधिम्
सर्वभोगानवाप्नोति पूज्यते च दिवं गतः
भोजनाग्रासनं दत्त्वा अतिथिभ्यः कृताञ्जलिः