इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ब्राह्मणपरीक्षा नाम पञ्चदशो ऽध्यायः
तारणं सर्वभूतानां स्वर्गमार्गसुखावहम्
सर्वं पितॄणां दातव्यं तेषामेवाज्ञयार्थिना
दिव्याप्सरोभिः संपूर्णमन्नदो लभते ऽक्षयम्
आयुः प्राकाश्यमैश्वर्यं रूपं च लभते शुभम्
पावनं सर्व विप्राणां ब्रह्मदानस्य तत्फलम्
मधुक्षीराज्यदधिभिर्दातारमुपतिष्ठते
धेनुं सलभते दिव्यां पयोदां सुखदो हिनीम्
शोभनं लभते यानं पादयोः सुखमेधते
प्राप्नुयात्सर्वपुष्पाणि सुगन्धीनि मृदूनि च
दिव्यं स लभते यानं वाजियुक्तं नवं तथा
प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति
श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे महीयते
वाहनानि च दिव्यानि प्रयुतान्यर्बुदानि च
चन्द्रसूर्यनिभं दिव्यं विमानं लभते ऽक्षयम्
वसेत्स तु विमानाग्रे स्तूयमानः समन्ततः
सुश्लक्ष्मानि सुवर्णानि श्राद्धे पात्राणि दापयेत्
तिलानिक्षूंस्तथा श्राद्धे द्विजेभ्यः संप्रयच्छति
यः पात्रं तैजसं दद्यान्मनोज्ञ श्राद्धभोजनैः
राजतं काञ्चनं वापि यो दद्याच्छ्राद्धकर्मणि
धेनुं श्राद्धे तु यो दद्याद्गृष्टिं कुम्भापदोहनीम्
दद्याद्यः शिशिरे चाग्निं बहुकाष्ठं प्रयत्नतः
इन्धनानि तु यो दद्या द्द्विजेभ्यः शिशिरागमे
सुरभीणि च माल्यानि गन्धवन्ति तथैव च
गन्धमाल्यं महात्मानं सुखानि विविधानि च
शयनासनयानानि भूमयो वाहनानि च
श्राद्धकाले गुणवति विप्रे वै समुपस्थिते
सर्पिःपूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत्
श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकफलं लभेत्
कूपारामतडागानि क्षेत्रगोष्ठगृहाणि च