भृतको ऽध्यापयेद्यस्तु भृतकाध्यापितस्तु यः
क्रयश्च विक्रयश्चैवाजीवितार्थे विगर्हितौ
आहरेद्भृतितो वेदान् वेदेभ्यश्चोपजीवति
वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरैः
स्त्रियो रक्तान्तरा येषां परदारपराश्च ये
वर्णाश्रमाणां धर्मेषु विरुद्धाःसर्वकर्मणि
यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः
स्त्रीशूद्रायान्नमेतद्वै श्राद्धोच्छिष्टं न दापयेत्
तस्मान्न देयमन्नाद्यमुच्छिष्टं श्राद्धकर्मणि
अवशेषं तु दातव्यमन्नाद्यं तु विशेषतः
यावन्न श्रपितं चान्नं यावतौष्ण्यं न मुञ्चति
दत्तं प्रतिग्रहो होमो भोजनं बलिरेव च
एतान्येव च सर्वाणि दानानि च विशेषतः
मुण्डाञ्जटिलकाषायाञ्श्राद्धकर्मणि वर्जयेत्
देवभक्ता महात्मानः पुनीयुर्दर्शनादपि
सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं हि निरन्तरम्
व्यक्ताव्यक्तं वशे कृत्वा सर्वस्यापि च यत्परम्
सर्वज्ञानानि सृष्टानि मोक्षादीनिमहात्मभिः
तस्मात्तेषां सदा भक्तः फलं प्राप्नोति वोत्तमम्
सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम्
इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ब्राह्मणपरीक्षा नाम पञ्चदशो ऽध्यायः
तारणं सर्वभूतानां स्वर्गमार्गसुखावहम्
सर्वं पितॄणां दातव्यं तेषामेवाज्ञयार्थिना
दिव्याप्सरोभिः संपूर्णमन्नदो लभते ऽक्षयम्
आयुः प्राकाश्यमैश्वर्यं रूपं च लभते शुभम्
पावनं सर्व विप्राणां ब्रह्मदानस्य तत्फलम्
मधुक्षीराज्यदधिभिर्दातारमुपतिष्ठते
धेनुं सलभते दिव्यां पयोदां सुखदो हिनीम्
शोभनं लभते यानं पादयोः सुखमेधते
प्राप्नुयात्सर्वपुष्पाणि सुगन्धीनि मृदूनि च