अयतिर्मोक्षवादी च श्रुतौ तौ पङ्क्तिदूषकौ
निन्दन्ति च द्विजातिभ्यः सर्वे ते पङ्क्तिदूषकाः
ध्यानं निन्दन्ति ये केचित्सर्वे ते पङ्क्तिदूषकाः
निर्घृणान्भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत्
गाय नान्वेदवृत्तांश्च हव्यकव्ये न भोजयेत्
यो ऽश्नाति सह शूद्रेणा सर्वे ते पङ्क्तिदूषणाः
शुश्रूषणं चाप्यगुरोररेर्वाप्यकार्यमेतद्धि सदा द्विजानाम्
मिथ्याप्रवादी निन्दाकृत्तथा सूचकदांभिकौ
वेदे नियोगदातारो लोभमोहफलर्थिनः
न वियोगास्तु वेदानां यो नियुङ्क्ते स पापकृत्
भृतको ऽध्यापयेद्यस्तु भृतकाध्यापितस्तु यः
क्रयश्च विक्रयश्चैवाजीवितार्थे विगर्हितौ
आहरेद्भृतितो वेदान् वेदेभ्यश्चोपजीवति
वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरैः
स्त्रियो रक्तान्तरा येषां परदारपराश्च ये
वर्णाश्रमाणां धर्मेषु विरुद्धाःसर्वकर्मणि
यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः
स्त्रीशूद्रायान्नमेतद्वै श्राद्धोच्छिष्टं न दापयेत्
तस्मान्न देयमन्नाद्यमुच्छिष्टं श्राद्धकर्मणि
अवशेषं तु दातव्यमन्नाद्यं तु विशेषतः
यावन्न श्रपितं चान्नं यावतौष्ण्यं न मुञ्चति
दत्तं प्रतिग्रहो होमो भोजनं बलिरेव च
एतान्येव च सर्वाणि दानानि च विशेषतः
मुण्डाञ्जटिलकाषायाञ्श्राद्धकर्मणि वर्जयेत्
देवभक्ता महात्मानः पुनीयुर्दर्शनादपि
सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं हि निरन्तरम्
व्यक्ताव्यक्तं वशे कृत्वा सर्वस्यापि च यत्परम्
सर्वज्ञानानि सृष्टानि मोक्षादीनिमहात्मभिः
तस्मात्तेषां सदा भक्तः फलं प्राप्नोति वोत्तमम्
सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम्