नानारूपैश्चरन्त्येते प्रजा धर्मेण योजयन्
व्यञ्जनानि तु वक्ष्यामि फलं तेषां तथैव च
सषोडशी सत्रफलं घृतेन मध्वातिरात्रस्य फलं तथैव
सर्वार्थदं सर्वविप्रातिथेयं फलं च भुङ्क्ते सर्वमेधस्य नित्यम्
तं वै देवा निरस्यन्ति हतो यद्वत्परावसुः
आविश्य विप्रं मोक्ष्यन्ति लोकानुग्रहकारणात्
सर्वस्वेनापि तस्माद्धि पूजयेदतिथिं सदा
वालखिल्यो यतिश्चैव विज्ञेयो ह्यतिथिः सदा
अतिथेरतिथिः प्रोक्तः सो ऽतिथिर्योग उच्यते
न च संतानसंबद्धो न देवी नागसे ऽतिथिः
तस्मै सत्कृत्य दातव्यं यज्ञम्य फलमिच्छता
तस्मै सत्कृत्य दातव्यं सदापचितिरेव सः
एकान्तशीलं धीमन्तं सदा श्राद्धेषु भोजयेत्
अपि जातिशतं गत्वा न स मुच्येत किल्बिषात्
नियुक्तो ह्यनि युक्तो वा पङ्क्त्या हरति किल्बिषम्
यतिस्तु सर्वविप्राणां सर्वेषामग्रतो भवेत्
योगादनन्तरं सो ऽथ नियोक्तव्यो विजानता
एकवेदस्ततः पश्चादुपाध्यायस्ततः परम्
य एते पूर्वनिर्द्दिष्टाः सर्वे ते ह्यनुपूर्वशः
यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः
चतुर्दशानां विद्यानामेकस्यामपि पारगाः
असंदेहस्तु सौपर्णाः पञ्चाग्नेयाश्च सामगाः
त्रिनाचिकेतस्त्रै विद्यो यश्च धर्मान्द्विजः पठेत्
सर्वे ते पावना विप्राः पङ्क्तीनां समुदात्दृताः
पितरस्तस्य तन्मासं तस्मिन्रितसि शेरते
यतिं वा वालखिल्यं वा भोजयेच्छ्राद्दकर्मणि
गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः
यतीनां तु कृता पूजा साक्षाद्ब्रह्मा तुं पूजितः
चत्वारस्त्वाश्रमाः पूच्याः श्राद्धे देवे तथैव च
यस्तिष्ठेद्वायुभक्षश्च चातुराश्रमबाह्यतः