मनसाकाङ्क्षितान्कामांस्त्रैलोक्यप्रवरानपि
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ऽशौचविधिर्नाम चतुर्दशो ऽध्योयः
श्रुता नः श्राद्धकल्पास्तु ऋषिभिर्ये प्रकीर्त्तिताः
देवाशेषं महाप्राज्ञ ऋषेस्तस्य मतं यथा
श्राद्धं प्रति महाभागस्तन्मे श्रुणुत विस्तरात्
परिशिष्टं प्रवक्ष्यामि ब्रह्मणानां परिक्षणम्
दैवे पित्र्ये च नियतं श्रूयते वै परीक्षणम्
जानीयाद्वापि संवासाद्वर्जयेत्तं प्रयत्नतः
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम्
पूजयेच्चार्घ्यपाद्याभ्यां तथाभ्यञ्जनभोजनैः
नानारूपैश्चरन्त्येते प्रजा धर्मेण योजयन्
व्यञ्जनानि तु वक्ष्यामि फलं तेषां तथैव च
सषोडशी सत्रफलं घृतेन मध्वातिरात्रस्य फलं तथैव
सर्वार्थदं सर्वविप्रातिथेयं फलं च भुङ्क्ते सर्वमेधस्य नित्यम्
तं वै देवा निरस्यन्ति हतो यद्वत्परावसुः
आविश्य विप्रं मोक्ष्यन्ति लोकानुग्रहकारणात्
सर्वस्वेनापि तस्माद्धि पूजयेदतिथिं सदा
वालखिल्यो यतिश्चैव विज्ञेयो ह्यतिथिः सदा
अतिथेरतिथिः प्रोक्तः सो ऽतिथिर्योग उच्यते
न च संतानसंबद्धो न देवी नागसे ऽतिथिः
तस्मै सत्कृत्य दातव्यं यज्ञम्य फलमिच्छता
तस्मै सत्कृत्य दातव्यं सदापचितिरेव सः
एकान्तशीलं धीमन्तं सदा श्राद्धेषु भोजयेत्
अपि जातिशतं गत्वा न स मुच्येत किल्बिषात्
नियुक्तो ह्यनि युक्तो वा पङ्क्त्या हरति किल्बिषम्
यतिस्तु सर्वविप्राणां सर्वेषामग्रतो भवेत्
योगादनन्तरं सो ऽथ नियोक्तव्यो विजानता
एकवेदस्ततः पश्चादुपाध्यायस्ततः परम्
य एते पूर्वनिर्द्दिष्टाः सर्वे ते ह्यनुपूर्वशः
यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः