ब्रह्मणस्य द्वादशाहं क्षत्रियस्य विधीयते
उदक्या सर्ववर्णानां चतूरात्रेण शुध्यति
नग्नादीन्मृतहारांश्च स्पृष्ट्वा शौचं विधीयते
एतदेव भवेच्छौचं मैथुने वमने तथा
प्रक्षाल्य चाद्भिः स्नात्वा तु हस्तौ चैव पुनर्मृदा
एवं शौचविधिर्दृष्टः सर्वकृत्येषु नित्यदा
अरण्ये शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम्
अतिरिक्तमृदं दद्यान्मृदन्ते त्वद्भिरेव च
कण्ठं शिरो वा आवृत्य रथ्यापणगतो ऽपि वा
पक्षाल्य पात्रं निक्षिप्य आचम्याभ्युक्षणं ततः
पुष्पादीनां तृणानां च प्रोक्षणं हविषां तथा
नाप्रोक्षितं स्पृशेत्किञ्चिच्छ्रद्धे दैवे ऽथ वा पुनः
संवृते यजमानस्तु सर्वश्राद्धे समाहरेत्
दक्षिणेन तु हस्तेन दक्षिणां वेदिमालभेत्
क्षरणं स्वप्नयोश्चैव तथा मूत्रपुरीषयो
उच्छिष्टानां च संस्पर्शे तथा पादावसेचने
संदेहेषु च सर्वेषु शिखां मुक्त्वा तथैव च
उष्ट्रस्यावेश्च संस्पर्शे दर्शने ऽवाच्यवाचिनाम्
सशब्दमेगुलीभिर्वा पतितं वा विलोकयन्
उपविश्य शुचौ देशे प्रयतः प्रागुदङ्मुखः
प्रसन्नस्त्रिः पिबेद्वारि प्रयतः सुसमाहितः
खानि मूर्द्धानमात्मानं हस्तौ पादौ तथैव च
एवमाचमतस्तस्य वेदा यज्ञास्तपांसि च
क्रियां यः कुरुते मोहादनासम्येह नास्तिकः
वाक्कायबुद्धिपूतानि अस्पृष्टं वाप्यनिन्दितम्
मनोवाक्कायमग्निश्च कालश्चैवोपलेखनम्
अतो ऽन्यथा तु यः कुर्यान्मोहाच्छौचस्य संकरम्
शौचेन मोक्षं कुर्वाणः स्वर्गवासी भवेन्नरः
बीभत्सानशुचींश्चैव वर्जयन्ति सुराः सदा
ब्रह्मण्यायाति थेयाय शौचयुक्ताय धीमते