ःंसवार्यवनैरेव यथावत्पादधावनम्
उपवासस्त्रिरात्रं तु दुष्टमुक्ते ह्युदात्दृतः
स्पृष्ट्वा श्वानं श्वपाकं च तप्तकृच्छ्रं समाचरेत्
त्रिरात्रमुक्तं सस्नेहान्येकरात्रमतो ऽन्यथा
पीत्वा चापोभूतिलपा गत्वा चापि युगं धरम्
पापदेशाश्च ये केचित्पापैरध्युषिता जनैः
गच्छतां रागसंमोहात्तेषां पापं न गच्छति
आरुह्य भृगुतुङ्गं तु गत्वा पुण्यां सरस्वतीम्
हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूचिताः
गत्वैतान्मुच्यते पापैः स्वर्गे चात्यन्तमश्नुते
ब्रह्मणस्य द्वादशाहं क्षत्रियस्य विधीयते
उदक्या सर्ववर्णानां चतूरात्रेण शुध्यति
नग्नादीन्मृतहारांश्च स्पृष्ट्वा शौचं विधीयते
एतदेव भवेच्छौचं मैथुने वमने तथा
प्रक्षाल्य चाद्भिः स्नात्वा तु हस्तौ चैव पुनर्मृदा
एवं शौचविधिर्दृष्टः सर्वकृत्येषु नित्यदा
अरण्ये शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम्
अतिरिक्तमृदं दद्यान्मृदन्ते त्वद्भिरेव च
कण्ठं शिरो वा आवृत्य रथ्यापणगतो ऽपि वा
पक्षाल्य पात्रं निक्षिप्य आचम्याभ्युक्षणं ततः
पुष्पादीनां तृणानां च प्रोक्षणं हविषां तथा
नाप्रोक्षितं स्पृशेत्किञ्चिच्छ्रद्धे दैवे ऽथ वा पुनः
संवृते यजमानस्तु सर्वश्राद्धे समाहरेत्
दक्षिणेन तु हस्तेन दक्षिणां वेदिमालभेत्
क्षरणं स्वप्नयोश्चैव तथा मूत्रपुरीषयो
उच्छिष्टानां च संस्पर्शे तथा पादावसेचने
संदेहेषु च सर्वेषु शिखां मुक्त्वा तथैव च
उष्ट्रस्यावेश्च संस्पर्शे दर्शने ऽवाच्यवाचिनाम्
सशब्दमेगुलीभिर्वा पतितं वा विलोकयन्
उपविश्य शुचौ देशे प्रयतः प्रागुदङ्मुखः