अप्सु यः कारणं तेषां बोधयन्कर्म्मणा तु सः
गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु
तेषां मेध्यानि कर्म्माणि प्रायशः प्रतिपेदिरे
पुनः पुनस्ते कल्पेषु जायन्ते नामरूपेणः
ताः प्रजा ध्यायतस्तस्य सत्याभिध्यायिनस्तदा
जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुतेजसः
ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यमर्षिणः
रजस्तमोभ्यासुद्धिक्ता गृहशीलास्ततः स्मृताः
कूटकाकूटकाश्चैव उत्पद्यंते मुमूर्षुणाम्
ततः प्रभृति कल्पे ऽस्मिन्मैथुनानां च संभवः
शब्दादिविषयः शुद्धः प्रत्येकं पञ्चलक्षणम्
तथान्वयास्तु संभूता यैरिदं पूरितं जगत्
तदा ता ह्यल्पसंतोषायुद्धे तस्मिंश्चरंति वै
ताः प्रजाः कामचारिण्यो मानसीं सिद्धिमिच्छतः
धर्माधर्मौं तदा न स्तः कल्पादौ प्रथमे युगे
चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया
ततः सहस्रशस्तास्तु प्रजासु प्रथितास्विह
पर्वतोदधिवासिन्यो ह्यनिकेताश्रयास्तु ताः
ताश्शश्वत् कामचरिण्यो नित्यं मुदितमानसाः
नोद्विजा नोत्कटाश्चैव धर्मस्य प्रक्रिया तु सा
सर्वैकान्तसुखः कालो नात्यर्थं ह्युष्णशीतलः
उत्तिष्ठंति पृथिव्यां वै तेषां ध्यानै रसातलात्
असंस्कार्यैः शरीरैस्तु प्रजास्ताः स्थिरयौवनाः
समं जन्म च रूपं च प्रीयंते चैव ताः समाः
निर्विशेषाश्च ताः सर्वा रूपायुःशिल्पचेष्टितैः
अप्रवृत्तिः कृतद्वारे कर्मणः शुभपापयोः
अनिच्छाद्वेषयुक्तास्ता वर्त्तयन्ति परस्परम्
सुखप्राया विशोकाश्च उत्पद्यंते कृते युगे
मनसा विषयस्तासां निरीहाणां प्रवर्तते
नाति हिंसति वान्योन्यं नानुगृङ्णंति वै तदा