वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम्
युद्धानि द्वापरे नित्यं पाखण्डाश्च कलौ युगे
श्वा चैव हन्ति श्राद्धानि दर्शनादेव सर्वशः
पतितैर्मलिनैश्चैव न द्रष्टव्यं कथञ्चन
उत्स्रष्टव्याः प्रधा नार्थैः संस्कारस्त्वापदो भवेत्
सृष्टं युक्ताभिरद्भिश्च प्रोक्षणं च विधीयते
गुरुसूर्याग्निवास्राणां दर्शनं वापि यत्नतः
अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत्
शर्कराकीटपाषाणैः केशैर्यच्चाप्यु पाहृतम्
सिद्धीकृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि
अयज्ञय तयो नाम ते ध्वंसंति यथा रजः
सैन्धवं लवणं चैव तथा मानससंभवम्
अग्नौ प्रक्षिप्य गृङ्णीयाद्धस्तौ प्रक्षिप्य यत्नतः
द्रव्याणां प्रोक्षणं कार्यं तथैवावपनं पुनः
अश्ममूलफलेक्षूणां रज्जूनां चर्मणामपि
तथा दन्तास्थि दारुणां शृङ्गाणां चावलेखनम्
मणिमुक्ताप्रवालानां जलजानां च सर्वशः
स्याच्छौचं सर्वबालानामाविकानां च सर्वशः
आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं विधिः
फलपुष्पपलाशानां प्लावनं चाद्भिरिष्यते
निषेको गोक्रमो दाहः खननं शुद्धिरिष्यते
पुंसां चतुष्पदां चव मृद्भिः शौचं विधीयते
अनिर्दिष्टमतो यद्यत्तन्मे निगदतः शृणु
कुर्यात्पुरीषं हि शिरो ऽवगुण्ठ्य न वै स्पृशेज्जातु शिरः करेण
सुसंवृत्ते प्रदेशे च णन्तर्धाय वसुंधराम्
दिवा उदङ्मुखः कुर्याद्रात्रौ वै दक्षिणामुखः
शौचं वामेन हस्तेन गुदे तिस्रस्तु मृत्तिकाः
उभाभ्यां वा पुनर्दद्याद्द्वाभ्यां सप्त तु मृत्तिकाः
आपस्त्वाद्यास्त्रयश्चैव सुर्याग्न्यनिलदेवताः