प्रलीयते वृषो यस्मिन्निरालंबश्च यो बृषे
वृषो वेदाश्रमस्तस्मिन्यो वै सम्यङ्न पश्यति
पुरा देवासुरे युद्धे निर्जितैरसुरैस्तथा
वृद्धश्रावकिनिर्ग्रन्थाः शाक्या जीवककार्पटाः
वृथा जटी वृथा मुण्डी वृथा नग्नश्च यो द्विजः
कुलधर्मातिगाः शश्वद्वृथा वृत्तिकलत्रकाः
एतैर्हि दत्तं दृष्टं वै श्राद्धं गच्छति दानवान्
दस्युश्चैव नृशंसश्च दर्णने तान्विसर्जयेत्
देवतानामृषीणां च विवादे प्रवदन्ति ये
असुरान्यातुधानांश्च दृष्टमेभिर्व्रजत्युत
वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम्
युद्धानि द्वापरे नित्यं पाखण्डाश्च कलौ युगे
श्वा चैव हन्ति श्राद्धानि दर्शनादेव सर्वशः
पतितैर्मलिनैश्चैव न द्रष्टव्यं कथञ्चन
उत्स्रष्टव्याः प्रधा नार्थैः संस्कारस्त्वापदो भवेत्
सृष्टं युक्ताभिरद्भिश्च प्रोक्षणं च विधीयते
गुरुसूर्याग्निवास्राणां दर्शनं वापि यत्नतः
अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत्
शर्कराकीटपाषाणैः केशैर्यच्चाप्यु पाहृतम्
सिद्धीकृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि
अयज्ञय तयो नाम ते ध्वंसंति यथा रजः
सैन्धवं लवणं चैव तथा मानससंभवम्
अग्नौ प्रक्षिप्य गृङ्णीयाद्धस्तौ प्रक्षिप्य यत्नतः
द्रव्याणां प्रोक्षणं कार्यं तथैवावपनं पुनः
अश्ममूलफलेक्षूणां रज्जूनां चर्मणामपि
तथा दन्तास्थि दारुणां शृङ्गाणां चावलेखनम्
मणिमुक्ताप्रवालानां जलजानां च सर्वशः
स्याच्छौचं सर्वबालानामाविकानां च सर्वशः
आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं विधिः