पिबञ्छचीपतिः सोमं पृथिव्यां मध्यगः पुरा
विप्रुषस्तस्य नासाभ्यामासक्ताभ्यां तथेक्षवः
श्यामाकैरिक्षुभिश्चैव पितॄणां सर्वकामिकम्
श्यामाकास्तु द्विनामानो विहिता यजनेस्मृते
प्रसातिकाः प्रियङ्गुश्च मुद्गाश्च हरितास्तथा
कृष्णमाषास्तिलाश्चैव श्रेष्ठास्तु यवशालयः
कृष्णाश्चैवान्नलोहाश्च गर्ह्याः स्युः श्राद्धकर्मणि
मसूराश्चैव पुण्याश्च कुसुंभं श्रीनिकेतनम्
बिल्वामलकमृद्वीकापनसाम्रातदाडिमाः
खशेरुकोविदार्यश्च तालकन्दं तथा विसम्
कालेयं कालशाकं च भूरिपूर्णा सुवर्चला
कफालकं कणा द्राक्षा लकुचं चोचमेव च
वैकङ्कतं नालिकेरशृङ्गज पकरूषकम्
सुगन्धमांसपीवन्ति कषायाः सर्व एव च
नागरं चात्र वै देयं दीर्घमूलकमव च
वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः
करंभाद्यानि चान्यानि हीनानि रसगन्धतः
पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः
तत एतानि जातानि लशुनादीनि सर्वशः
श्रद्धकर्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः
लभेद्यत्र न गौस्तृप्तिं नक्तं यच्चैव गुह्यते
माहिषं चामरं चैव पयो वर्ज्यं विजानता
न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः
राजनिष्ठामवाप्नोति स्वर्गमक्षयमेव च
पूतिगन्धां तथा भूमिं वर्जयेच्छ्राद्धकर्मणि
त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादश योजनम्
देशास्त्रिशङ्कवो नाम वर्ज्या वै श्राद्धकर्मणि
प्रनष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः
गच्छन्त्येतैस्तु दृष्टानि न पितॄंश्च पितामहांन
सर्वेषामेव भूतानां त्रयीसंवरणं स्मृतम्