पावनी सर्वभूतानां धर्मज्ञानां विशेषतः
सागरं पश्चिमं यातो दिव्यः सिंधुनदो वरः
आयतो वै सहस्राणि योजनानां बहुनि तु
तत्र पुष्करिणी रम्या सुषुम्णा नाम नामतः
श्राद्धं भवति चानन्तं तत्र दत्तं महोदयम्
सर्वत्र हिमवान्पुण्यो गङ्गा पुण्या समन्ततः
एवमादिषु चान्येषु श्राद्धं निर्वर्तयेद्बुधः
शेलसानुषु शृङ्गेषु कन्दरेषु गुहासु च
पुलिनेष्वापगानां च तथैव प्रभवेषु च
सुसंमृष्टोपलिप्तेषु त्दृद्येषु सुरभिष्वथ
कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि
एवमेतेषु सर्वेषु श्राद्धं कुर्यादतन्द्रितः
त्रैवर्णविहितैः स्थाने धर्मे वर्णाश्रमे रतैः
तीर्थान्यनुसरन्वीरः श्रद्दधानः समाहितः
तिर्यग्योनिं न गच्छेच्च कुदेशे च न जायते
अश्रद्दधानः पापायुर्नास्तिको ऽच्छिन्नसंशयः
गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम्
उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम्
प्राणापानौ वशे कृत्वा वशगानीन्दियाणि च
प्रत्याहारं कृतं विद्धि मोक्षोपायमसंशयम्
अना हारो क्षयं याति विद्यादनशनं तपः
क्षीणेषु सर्वदोषेषु क्षीणेष्वेवेन्द्रियेषु च
कारणेभ्यो गुणेभ्यश्च व्यक्ताव्यक्ताच्च कुत्स्नशः
न सन्नासन्न सदसन्नैव किञ्चिदवस्थितः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे पुण्यदेशानुकीर्त्तनं नाम त्रयोदशो ऽध्यायः
श्राद्धकर्मणि मेध्यानि वर्जनीयानि यानि च
अग्निहोत्रमुपायुष्यं पवित्रं परमं हितम्
सर्वस्वेनापि कर्त्तव्यङ्क्षिप्रं वै राहुदर्शने
कुर्वाणस्तत्तरेत्पापं सती नौरिव सागरे
विषाणवर्जं खड्गस्य मात्सर्यान्नाशयामहे