कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले
तत्र योगेश्वरो नित्यं तस्यां दत्तमथाक्षयम्
जबो होमस्तथा ध्यानं यत्किञ्चित्सुकृतं भवेत्
सा तु देवी समुद्रान्ते दृश्यते चैव नामभिः
गयां गृध्रवटे चैव श्राद्धं दत्तं महाफलम्
भरतस्याश्रमे पुण्ये ऽरण्यं पुण्यतमं स्मृतम्
स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम्
यस्मिन्प्राहुर्विशल्येति तीर्थं सद्यो निदर्शनम्
उन्मच्चन्ति तथा लग्न ये वै पापकृतो जनाः
महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम्
बहुदेवयुगांस्तप्त्वा तपस्तीव्रं सुदश्चरम्
पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः
लेलिहानैर्महाघोरै रक्ष्यते सुमहोरगैः
उदीच्यां मुण्डपृष्टस्य ब्रह्मर्षिगणसेवितम्
दत्तं वापि सदा श्राद्धमक्षय्यं समुदाहृतम्
मानसे सरसि स्नात्वा श्राद्धंनिर्वर्त्तयेत्ततः
आरुह्य तु जपंस्तत्र सिद्धो याति दिवं ततः
स्नात्वा तस्मिन्सरश्रेष्ठे दृश्यते महादद्भुतम्
गङ्गा त्रिपथगा देवी विष्णुपादाच्च्युता सती
जांबूनदमयं पुण्यं स्वगद्वारमिवायतम्
पावनी सर्वभूतानां धर्मज्ञानां विशेषतः
सागरं पश्चिमं यातो दिव्यः सिंधुनदो वरः
आयतो वै सहस्राणि योजनानां बहुनि तु
तत्र पुष्करिणी रम्या सुषुम्णा नाम नामतः
श्राद्धं भवति चानन्तं तत्र दत्तं महोदयम्
सर्वत्र हिमवान्पुण्यो गङ्गा पुण्या समन्ततः
एवमादिषु चान्येषु श्राद्धं निर्वर्तयेद्बुधः
शेलसानुषु शृङ्गेषु कन्दरेषु गुहासु च
पुलिनेष्वापगानां च तथैव प्रभवेषु च
सुसंमृष्टोपलिप्तेषु त्दृद्येषु सुरभिष्वथ