कुबेरतुङ्गे पापघ्नं व्यासतीर्थेतथैव च
सिद्धैस्तु सेविता नित्यं दृश्यते तु कृतात्मभिः
सिद्धिक्षेत्रं सुरैर्जुष्टं यत्प्राप्य न निवर्त्तते
भूतानामनुकंपार्थं नास्तिकानां निदर्शनम्
नन्दायां विरजे चैव तथैव च महालये
काकह्रदे जातिस्मर्यं सुवर्णममितौजसम्
कुमारतीर्थे स्नात्वा तु त्रिदिवं याति मानवः
निराहारो युगं दिव्यमुमातुङ्गो स्थितो ज्वलन्
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता
दुष्कृतं दृश्यते तत्र प्रत्यक्षमकृतात्मनाम्
तत्र देवह्रदः पुण्यो ब्रह्मणो नागराट् शुचिः
अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते
कारवत्यां च शाण्डिल्यां गुहायां वामनस्य च
जपो होमस्तपो ध्यानं यत्किञ्चित्सुकृतं भवेत्
कुमारधारा तत्रैव दृष्टा पापं प्रणश्यति
शैलः कान्तिपुराभ्याशे प्रागुदीच्यां दिशि स्थितः
यस्यां स्नात्वा सकृद्विप्रः कामानाप्नोति शाश्वतान्
अदृश्यः सर्वभूतानां देववच्चरते महीम्
तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता
निर्धूतानि तु पापानि दृश्यन्ते सुकृतात्मनाम्
कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले
तत्र योगेश्वरो नित्यं तस्यां दत्तमथाक्षयम्
जबो होमस्तथा ध्यानं यत्किञ्चित्सुकृतं भवेत्
सा तु देवी समुद्रान्ते दृश्यते चैव नामभिः
गयां गृध्रवटे चैव श्राद्धं दत्तं महाफलम्
भरतस्याश्रमे पुण्ये ऽरण्यं पुण्यतमं स्मृतम्
स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम्
यस्मिन्प्राहुर्विशल्येति तीर्थं सद्यो निदर्शनम्
उन्मच्चन्ति तथा लग्न ये वै पापकृतो जनाः
महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम्