दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम्
अस्मिंल्लोके वशी च स्यात्प्रेत्य स्वर्गे मही यते
तत्र व्याससरः पुण्यं दिव्यो ब्रह्मह्रदस्तथा
अत्रैव चाश्रमः पुण्यो वसिष्ठस्य महात्मनः
आख्यान पञ्चमा वेदाः सृष्टा ह्येते स्वयंभुवा
श्राद्धं चानन्त्यमेतेषु जपहोमतपांसि च
ब्रह्मतीर्थे महाप्राज्ञ सर्वयज्ञसमं फलम्
विरजायां तथा पुण्यं मद्रवायां च पर्वते
महाकूटे ह्यनन्ते च गिरौ त्रिककुदे तथा
अश्रद्दधानं नाभ्येति सा चाभ्येति धृतव्रतम्
तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिनाम्
स्वर्गमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम्
अद्यापि तानि दृश्यन्ते चीराण्यंभोगतानि तु
ख्यातमायतनं तत्र नन्दिनः सिद्धसेवितम्
दृश्यन्ते काञ्चना युपास्त्वर्चिषो भास्करोदये
सर्वतश्च कुरुक्षेत्रं सुतीर्थं तु विशेषतः
कीर्त्यते च तिलान्दत्त्वा पितृभ्योवै सदाक्षयम्
श्राद्धं दत्तममावास्यां विधिना च यथाक्रमम्
अर्चयित्वा पितॄंस्तत्र स पुत्रस्त्वनृणो भवेत्
व्यासतीर्थे दृषद्वत्यां त्रिप्लक्षे च विशेषतः
शक्रावतारे गङ्गायां मैनाके च नगोत्तमे
अत्युष्णाश्चातिशीताश्च आपस्तस्मिन्निदर्शनम्
तत्राक्षयं सदा श्राद्धं पितृभिः पूर्वकीर्त्तितम्
तस्मिंस्तु श्राद्धमानन्त्यं जपहोमतपांसि च
अद्यापि तत्र दृश्यन्ते पादपा मणिबर्हणाः
यथा वै तोलितं विप्रैस्तीर्थानां फलमुत्तमम्
चतुर्थो ब्रह्मणस्त्वंशः पराशरकुलोद्भवः
महायोगं महात्मानं या व्यासं जनयिष्यति
मत्स्ययोनौ पुनर्जाता नियोगात्कारणेन तु
दत्तं सकृदपि श्राद्धमक्षयं समुदाहृतम्