महोदधौ प्रभासे च तद्वदेव विनिर्दिशेत्
समुत्पतन्ति तस्यापो गवां शब्देन नित्यशः
दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम्
जातवेदः शिला तत्र साक्षादग्नेः सनातनात्
यस्त्वग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते
दशाश्वमेधिके तीर्थे तीर्थे पञ्चाश्वमेधिके
ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम्
श्राद्धं सुंदनिसुंदे च देयं पापनिषू दनम्
जतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन्
पृथिव्यामक्षयं दत्तं विरजा यत्र पादपः
दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम्
अस्मिंल्लोके वशी च स्यात्प्रेत्य स्वर्गे मही यते
तत्र व्याससरः पुण्यं दिव्यो ब्रह्मह्रदस्तथा
अत्रैव चाश्रमः पुण्यो वसिष्ठस्य महात्मनः
आख्यान पञ्चमा वेदाः सृष्टा ह्येते स्वयंभुवा
श्राद्धं चानन्त्यमेतेषु जपहोमतपांसि च
ब्रह्मतीर्थे महाप्राज्ञ सर्वयज्ञसमं फलम्
विरजायां तथा पुण्यं मद्रवायां च पर्वते
महाकूटे ह्यनन्ते च गिरौ त्रिककुदे तथा
अश्रद्दधानं नाभ्येति सा चाभ्येति धृतव्रतम्
तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिनाम्
स्वर्गमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम्
अद्यापि तानि दृश्यन्ते चीराण्यंभोगतानि तु
ख्यातमायतनं तत्र नन्दिनः सिद्धसेवितम्
दृश्यन्ते काञ्चना युपास्त्वर्चिषो भास्करोदये
सर्वतश्च कुरुक्षेत्रं सुतीर्थं तु विशेषतः
कीर्त्यते च तिलान्दत्त्वा पितृभ्योवै सदाक्षयम्
श्राद्धं दत्तममावास्यां विधिना च यथाक्रमम्
अर्चयित्वा पितॄंस्तत्र स पुत्रस्त्वनृणो भवेत्
व्यासतीर्थे दृषद्वत्यां त्रिप्लक्षे च विशेषतः