दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम्
अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा
सशल्यानां च सत्त्वानां विशल्यकरणी नदी
कलिङ्गदेशपश्चार्द्धे शृङ्गे माल्यवतो विभोः
संमतं देवदैत्यानां श्लोकं चाप्युशना जगौ
पितॄन्संतर्पयिष्यन्तिश्राद्धे पितृपरायणाः
सकृदेवार्चितास्तत्र स्वर्गमामरकण्टके
तत्रारुह्य भवेत्पूतः श्राद्धं चैव महाफलम्
अधृष्यश्चैव भूतानां देववच्चरते महीम्
अश्वमेधफलं स्नात्वा तत्र दत्त्वा भवेत्ततः
रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः
अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति
आरुह्यतं निय मवांस्ततो याति त्रिविष्टपम्
आपश्चन्दनसंयुक्ताः स्पन्देति सततं ततः
या चन्दनमहाखण्डाद्दक्षिणं याति सागरम्
शङ्खा भवन्ति शुक्त्यश्च जायते यासु मौक्तिकम्
आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम्
पापकर्त्तॄनपि पितॄंस्तारयन्ति यथाश्रुति
श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ
पलाशाः खदिरा बिल्वाः प्लक्षाश्वत्थविकङ्कताः
अस्मिंस्त्यक्त्वा जनोंऽगाति क्षिप्रं यात्यमरावतीम्
कर्माणि तु प्रयुक्ता नि सिद्ध्यन्ति प्रभवाप्यये
पितॄणां दुहिता पुण्या नर्मदा सरितां वरा
माठरस्य वने पुण्ये सिद्धचारणसेविते
विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनीम्
तत्र तद्दृश्यते पापं केषां चित्पापकर्मणाम्
स्नात्वा तस्या दिवं यान्ति कामचारा विहङ्गमाः
पाण्डुकूपे समुद्रान्ते पिण्डारकतटे तथा
श्रीवृक्षे चित्रकूटे च जंबूमार्गे च नित्यशः
तत्रापि श्राद्धमानन्त्यमसितायां च नित्यशः