अग्रमुद्धृत्य सर्वेषां जुहुयाद्धव्यवाहने
हुत्वाग्नौ च ततः पिण्डान्निर्वपेद्दक्षिणा मुखः
उदकान्नयनं कृत्वा पश्चाद्विप्रांश्च भोजयेत्
स्निग्धैरुष्णैः सुगन्धैश्च तर्पयेत्तान्रसैरपि
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः
तपो यज्ञांश्च दानं च प्रयच्छन्ति पितामहाः
आनुपूर्व्येण विहितं तन्मे निगदतः शृणु
ततो ऽन्निविकिरं कुर्याद्विधिदृष्टेन कर्मणा
अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान्
प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत्
उपोद्धातपादे श्राद्धकल्पे द्वादशो ऽध्यायः
योगात्मानो महात्मानो विपाप्मानो महौजसः
येषु वाप्यनुगृह्णन्ति मोक्षप्राप्तिः क्रमेण तु
तीर्थानि चैव पुण्यानि देशांश्छैलांस्तथाश्रमान्
पर्वतप्रवरः पुण्यः सिद्धयारणसेवितः
तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा
न भयं नैव चालक्ष्मीर्यावद्भूमिर्द्धरिष्यति
शृङ्गे माल्यवतो नित्यं वह्निः संवर्त्तको यथा
शान्ताःकुशा इति ख्याताः परिदक्षिणनर्मदाम्
अग्निहोत्रे महातेजाः प्रस्तारार्थं कुशोत्तमान्
दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम्
अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा
सशल्यानां च सत्त्वानां विशल्यकरणी नदी
कलिङ्गदेशपश्चार्द्धे शृङ्गे माल्यवतो विभोः
संमतं देवदैत्यानां श्लोकं चाप्युशना जगौ
पितॄन्संतर्पयिष्यन्तिश्राद्धे पितृपरायणाः
सकृदेवार्चितास्तत्र स्वर्गमामरकण्टके
तत्रारुह्य भवेत्पूतः श्राद्धं चैव महाफलम्
अधृष्यश्चैव भूतानां देववच्चरते महीम्
अश्वमेधफलं स्नात्वा तत्र दत्त्वा भवेत्ततः