यत्र स्थास्यन्ति दातारस्तत्स्थानं वै निबोधत
ब्राह्मं स्थानमवाप्नोति सर्वलोकपुरस्कृतम्
अतो ऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते
तस्मान्निर्वर्तयेत्पञ्च महायज्ञान्सदा बुधः
बलिं सुविहितं कुर्या दुच्चैरुच्चतरं क्षिपेत्
तन्निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति
निवेद्यं केचिदिच्छन्ति जीवन्त्यपि हि यत्नतः
इच्छन्ति केचिदाचार्यः पश्चात्पिण्डनिवेदनम्
तद्धिधर्मार्थकुशलो नेत्युवाच बृहस्मतिः
योगात्मानो महात्मानः पितरो योग संभवाः
तस्माद्दद्याच्छुचिः पिण्डान्योगेभ्यस्तत्परायणः
ब्रह्मणानां सहस्रस्य योगस्थं ग्रासयेद्यदि
असतां प्रग्रहो यत्र सतां चैव विमानता
इत्वा मम सधर्माणं बालिशं यस्तु भोजयेत्
पिण्डमग्नौ सदा दद्यद्भोगार्थी प्रथमं नरः
उत्तमां कान्तिमन्विच्छन्गोषु नित्यं प्रयच्छति
प्रार्थयन्दीर्घामायुश्च वायसेभ्यः प्रयच्छति
एवमेतत्समुद्दिष्टं पिण्डनिर्वपणे फलम्
पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भेवेत्
अनुज्ञातस्तु तैर्विप्रैः कामसुद्ध्रियतामित्
अग्रमुद्धृत्य सर्वेषां जुहुयाद्धव्यवाहने
हुत्वाग्नौ च ततः पिण्डान्निर्वपेद्दक्षिणा मुखः
उदकान्नयनं कृत्वा पश्चाद्विप्रांश्च भोजयेत्
स्निग्धैरुष्णैः सुगन्धैश्च तर्पयेत्तान्रसैरपि
तत्परः श्रद्दधानश्च कामानाप्नोति मानवः
तपो यज्ञांश्च दानं च प्रयच्छन्ति पितामहाः
आनुपूर्व्येण विहितं तन्मे निगदतः शृणु
ततो ऽन्निविकिरं कुर्याद्विधिदृष्टेन कर्मणा
अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान्
प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत्