श्लेष्मान्तको नक्तमालः कपित्थः शाल्मलिस्तथा
चिरबिल्वस्तथा कोलस्तिदुकः श्राद्धकर्मणि
शकुनानां निवासांश्च वर्जयेत महीरुहान्
स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम्
उपोद्धातपादे श्राद्धकल्पे समिद्वर्णन नामैकादशो ऽध्यायः
आथर्वणस्त्वेष विधिरित्युवाच बृहस्पतिः
देवा अपि पितॄन्पूर्वमर्च्चयन्ति हि यत्नतः
विश्वाख्यास्तु सुतास्तस्यां धर्मतो जज्ञिरे दश
समस्तास्ते महात्मानश्चेरुरुग्रं महत्तपः
शुद्धेन मन्सा प्रीता ऊचुस्तान्पितरस्तदा
एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः
प्रीतो ऽस्मि तपसानेन कं कामं करवाणि वः
ऊचुस्ते सहिताः सर्वे ब्रह्माणां लोकभावनम्
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदशपूजितः
पितृभिश्च तथेत्युक्तमेवमेतन्न संशयः
अस्माकं कल्पिते श्राद्धे युष्मानप्राशनं हि वै
विसर्जनमथास्माकं पूर्वं पश्चात्तु दैवतम्
भूतानां देवतानां च पितॄणां चैव कर्मणि
एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह
वेदे पञ्च महायज्ञा नराणां समुदाहृताः
यत्र स्थास्यन्ति दातारस्तत्स्थानं वै निबोधत
ब्राह्मं स्थानमवाप्नोति सर्वलोकपुरस्कृतम्
अतो ऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते
तस्मान्निर्वर्तयेत्पञ्च महायज्ञान्सदा बुधः
बलिं सुविहितं कुर्या दुच्चैरुच्चतरं क्षिपेत्
तन्निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति
निवेद्यं केचिदिच्छन्ति जीवन्त्यपि हि यत्नतः
इच्छन्ति केचिदाचार्यः पश्चात्पिण्डनिवेदनम्
तद्धिधर्मार्थकुशलो नेत्युवाच बृहस्मतिः
योगात्मानो महात्मानः पितरो योग संभवाः