स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये
अक्षयं पूजितास्तेन भवन्ति पितरो ऽग्नयः
श्राद्धे महापवित्राणि मेध्यानि च विशेषतः
पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि
कृत्वा समाहितं चित्तमाग्नेयं वै करोम्यहम्
घृतमादाय पात्रे च जुहुयाद्धव्यवाहने
उदुंबरस्तथाबिल्वश्चन्दनो यज्ञियाश्च ये
समिदर्थे प्रशस्ताः स्युरेते वृक्षा विशेषतः
पूजिताः समिदर्थं ते पितॄणां वचनं यथा
फलं यत्कर्मणस्तस्य तन्मे निगदतः शृणु
श्लेष्मान्तको नक्तमालः कपित्थः शाल्मलिस्तथा
चिरबिल्वस्तथा कोलस्तिदुकः श्राद्धकर्मणि
शकुनानां निवासांश्च वर्जयेत महीरुहान्
स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम्
उपोद्धातपादे श्राद्धकल्पे समिद्वर्णन नामैकादशो ऽध्यायः
आथर्वणस्त्वेष विधिरित्युवाच बृहस्पतिः
देवा अपि पितॄन्पूर्वमर्च्चयन्ति हि यत्नतः
विश्वाख्यास्तु सुतास्तस्यां धर्मतो जज्ञिरे दश
समस्तास्ते महात्मानश्चेरुरुग्रं महत्तपः
शुद्धेन मन्सा प्रीता ऊचुस्तान्पितरस्तदा
एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः
प्रीतो ऽस्मि तपसानेन कं कामं करवाणि वः
ऊचुस्ते सहिताः सर्वे ब्रह्माणां लोकभावनम्
प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदशपूजितः
पितृभिश्च तथेत्युक्तमेवमेतन्न संशयः
अस्माकं कल्पिते श्राद्धे युष्मानप्राशनं हि वै
विसर्जनमथास्माकं पूर्वं पश्चात्तु दैवतम्
भूतानां देवतानां च पितॄणां चैव कर्मणि
एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह
वेदे पञ्च महायज्ञा नराणां समुदाहृताः