तेषामभिमुखो दद्याद्दर्भत्पिण्डांश्च यत्नतः
हरिता वै स पिञ्जालाः पुष्टाः स्निग्धाः समाहिताः
उपमूले तथा नीला विष्टरार्थं कुशोत्तमाः
पूर्वं कीर्त्तिमतां श्रेष्ठो बभूवाश्वः प्रजापतिः
तस्माद्देयाः सदा काशाः श्राद्धकर्मसु पूजिताः
प्रजाः पुष्टिद्युतिप्रज्ञाकीर्त्तिकान्तिसमन्विताः
सकृदेवास्तरेद्यर्भान्पिण्डार्थे दक्षिणामुखः
एकत्र चाधाय मनः श्राद्धं कुर्यात्समाहितः
रक्षांसि यक्षाः सपिशाचसंघा हता मया यातुधानाश्च सर्वे
शिवां हि बुद्धिं ध्रुवमिच्छमानः क्षिपेद्द्विचातिर्दिशमुत्तरां गतः
यस्मिन्देशे पठ्यते मन्त्र एष तं वै देशं राक्षसा वर्जयन्ति
पवित्रपाणिश्च भवेन्न वा हि यः पुमान्न कार्यस्य फलं समश्नुते
मनसा काङ्क्षते यद्यत्तत्तद्यद्युः पितमहाः
भवन्त्येवं कृते श्राद्धे नित्यमेव प्रयत्नतः
विरणाश्चोतुवालाश्च लड्वा वर्ज्याश्च नित्यशः
अञ्जनाभ्यजनं गन्धान्सूत्रप्रणयनं तथा
काशाः पुनर्भवा ये च बर्हिणो ह्युपबर्हिणः
पुष्पगन्धविभूषाणामेष मन्त्र उदाहृतः
अन्यार्थे लौकिकं वापि जुहुयात्कर्मसिद्धये
समाहितेन मनसा प्रणीयाग्निं समन्ततः
सोमाय वै पितृमते स्वधा अङ्गिरसे पुनः
इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः
एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वते
होमजप्ये नमस्कारः प्रोक्षणं च विशेषतः
अञ्जनाब्यञ्जनं चैव पिण्डनिर्वपणं तथा
क्रिया सर्वा यथोद्दिष्टाः प्रयत्नेन समाचरेत्
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये
यजमानो भवे दन्धः सो ऽमुत्रेति हि नः श्रुतम्
ज्वालाधूमापसव्यश्च स तु वह्निरसिद्धये
भूमिं वगाहते यत्र तत्र विद्यात्पराभवत्