सांप्रतं हि तयोर्मध्ये प्रागवस्था बभूव ह
सांप्रतं संप्रवक्ष्यामि कल्पमेतं निबोधत
शर्वर्यंते प्रकुरुते ब्रह्मा तूत्सर्गकारणात्
अन्धकारार्णवे तस्मिन्नष्टे स्थावरजंगमे
प्रविभागेन भूतेषु सत्यमात्रे स्थितेषु वा
तदा कामेन तरसामन्यामानःस्वयं धिया
ततस्तु सलिले तस्मिन् ज्ञात्वा त्वन्तर्गतो महीम्
चकार तं तु देवो ऽथ पूर्वकल्पादिषु स्मृतः
अद्भिः संछादितामिच्छन् पृथिवीं स प्रजापतिः
सामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च
प्राक्सर्गे दह्यमाने तु पुरा संवर्त काग्निना
शैल्यादेकार्णवे तस्मिन्वायुना ये तु संहिताः
स्कन्धाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः
तत स्तावासमुद्धृत्य क्षितिमंतर्जलात्प्रभुः
विषमाणि समीकृत्य शिलाभिरभितो गिरीन्
तावंतः पर्वताश्चैव वर्षांते समवस्थिताः
सप्तद्वीपा समुद्राश्च अन्योन्यस्यानुमंडलम्
भूराद्याश्चतुरो लोकाश्चंद्रादित्यौ ग्रहैः सह
कल्पस्य चास्य ब्रह्मा चासृजद्यः स्थानिनः सुरान्
स्वर्गं दिशः समुद्रांश्च नदीः सर्वांस्तु पर्वतान्
लवकाष्ठाः कलाश्चैव मुहुर्त्तान्संधिरात्र्यहान्
स्थानाभिमानिनश्चैव स्थानानिच पृथक्पृथक्
कृतं त्रेता द्वापरं च तिष्यं चैव तथा युगम्
प्रागुक्ताश्च मया तुभ्यं पूर्व्वे कल्पे प्रजास्तु ताः
अप्राप्तायास्तपोलोकं पृथिव्यां याः समासत
वीक्ष्यार्थं ताः स्थितास्तत्र पुनः सर्गस्य कारणात्
धर्म्मार्थ काममोक्षाणामिह ताः साधिताः स्मृताः
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्पुरा
आसंगद्वेषयुक्तेन कर्मणा ते दिवं गताः
स्वकर्म्मफलशेषेण ख्याताश्चैव तदात्मकाः