गन्धदानमलङ्कारमेकैकं निर्वपेद् बुधः
अभ्यङ्गं दर्भविञ्जूलैस्त्रिभिः कुर्याद्यथाविधि
निपात्य जानु सर्वेषां वस्त्रार्थं सूत्रमेव वा
सकृद्देवपितॄणां स्यात्पितॄणां त्रिभिरुच्यते
चैलमन्त्रेण पिण्डेभ्यो दत्त्वादर्शाञ्जिने हि तम्
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः
आहूय च पितॄन्प्राञ्चः पितृतीर्थेन यत्नतः
अन्नाद्यैरेव मुख्यैश्चभक्ष्यैश्चैव पृथग्विधैः
त्रीन्पिण्डानानुपूर्व्येण सांगुष्ठान्पुष्टिवर्द्धनान्
सव्योत्तराभ्यां पाणिभ्यां धारार्थं मन्त्रमुच्चरन्
दक्षिणस्यां तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत्
सव्योत्तराभ्यां पाणिभ्यां धर्मेर्ऽधं समतन्द्रितः
क्षौमं सूत्रं नवं दद्याच्छाणं कार्पासकं तथा
वर्जयेद्यक्षणं यज्ञे यद्यप्यहतवस्त्रजाम्
श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च
चन्दनागुरुणी चोभे तमालोशीरपद्मकम्
शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च
तथा हि सुमना नाडीरूपिकास्मकुरण्डिका
यथा गन्धादपेतानि चोग्रगन्धानि यानि च
द्विजातयो यथोद्दिष्टा नियताः स्युरुदङ्मुखाः
तेषामभिमुखो दद्याद्दर्भत्पिण्डांश्च यत्नतः
हरिता वै स पिञ्जालाः पुष्टाः स्निग्धाः समाहिताः
उपमूले तथा नीला विष्टरार्थं कुशोत्तमाः
पूर्वं कीर्त्तिमतां श्रेष्ठो बभूवाश्वः प्रजापतिः
तस्माद्देयाः सदा काशाः श्राद्धकर्मसु पूजिताः
प्रजाः पुष्टिद्युतिप्रज्ञाकीर्त्तिकान्तिसमन्विताः
सकृदेवास्तरेद्यर्भान्पिण्डार्थे दक्षिणामुखः
एकत्र चाधाय मनः श्राद्धं कुर्यात्समाहितः
रक्षांसि यक्षाः सपिशाचसंघा हता मया यातुधानाश्च सर्वे
शिवां हि बुद्धिं ध्रुवमिच्छमानः क्षिपेद्द्विचातिर्दिशमुत्तरां गतः