यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा
क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम्
पलाशे ब्रह्मवर्चस्त्वमश्वत्थे वसुभावना
पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः
सौभाग्यमुत्तमं लोके माधूके समुदात्दृतम्
परां द्युतिमथार्केतु प्राकाश्यं च विशेषतः
क्षेत्रारामतडागेषु सर्वसस्येषु चैव ह
एतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः
पितृभ्यः पुष्पमाल्यानि सुगन्धानि च तत्परः
गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति
धूपं गन्धगुणोपेतं कृत्वा पितृपरायणः
दद्यादेवं पितृभ्यास्तु नित्यमेव ह्यतन्द्रितः
गतिं चाप्रतिमं चक्षुस्तस्मात्सलभते शुभम्
भुवि प्रकाशो भवति ब्राजते च त्रिविष्टपे
गन्धपुष्पैश्च धूपैश्व जपाहुतिभिरेव च
पूजां कृत्वा द्विजान्पश्चात्पूजयेदन्नसंपदा
आविशन्ति द्विजाञ्छ्रेष्ठांस्तस्मादेतद्ब्रवीमि ते
गोभिरश्वैस्तथा ग्रामैः पूजयेद्द्विजसत्तमान्
तस्माद्यत्नेन विधिवत्पूजयेत द्विजान्सदा
प्रोक्षणं च ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः
गन्धदानमलङ्कारमेकैकं निर्वपेद् बुधः
अभ्यङ्गं दर्भविञ्जूलैस्त्रिभिः कुर्याद्यथाविधि
निपात्य जानु सर्वेषां वस्त्रार्थं सूत्रमेव वा
सकृद्देवपितॄणां स्यात्पितॄणां त्रिभिरुच्यते
चैलमन्त्रेण पिण्डेभ्यो दत्त्वादर्शाञ्जिने हि तम्
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः
आहूय च पितॄन्प्राञ्चः पितृतीर्थेन यत्नतः
अन्नाद्यैरेव मुख्यैश्चभक्ष्यैश्चैव पृथग्विधैः
त्रीन्पिण्डानानुपूर्व्येण सांगुष्ठान्पुष्टिवर्द्धनान्
सव्योत्तराभ्यां पाणिभ्यां धारार्थं मन्त्रमुच्चरन्