सप्तर्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम्
नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम्
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान्
तान्नमस्कृत्य सर्वान्वै पितृमत्सु विधिष्वपि
द्यावापृथिव्योश्च सदा नामस्यामि कृताञ्जलिः
त्रातारः सर्वभूतानां नमस्यामि पितामहान्
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः
स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे
अन्नमायुः सुताश्चैव ददते पितरो भुवि
सप्तार्चि षं जपेद्यस्तु नित्यमेव समाहितः
यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा
क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम्
पलाशे ब्रह्मवर्चस्त्वमश्वत्थे वसुभावना
पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः
सौभाग्यमुत्तमं लोके माधूके समुदात्दृतम्
परां द्युतिमथार्केतु प्राकाश्यं च विशेषतः
क्षेत्रारामतडागेषु सर्वसस्येषु चैव ह
एतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः
पितृभ्यः पुष्पमाल्यानि सुगन्धानि च तत्परः
गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति
धूपं गन्धगुणोपेतं कृत्वा पितृपरायणः
दद्यादेवं पितृभ्यास्तु नित्यमेव ह्यतन्द्रितः
गतिं चाप्रतिमं चक्षुस्तस्मात्सलभते शुभम्
भुवि प्रकाशो भवति ब्राजते च त्रिविष्टपे
गन्धपुष्पैश्च धूपैश्व जपाहुतिभिरेव च
पूजां कृत्वा द्विजान्पश्चात्पूजयेदन्नसंपदा
आविशन्ति द्विजाञ्छ्रेष्ठांस्तस्मादेतद्ब्रवीमि ते
गोभिरश्वैस्तथा ग्रामैः पूजयेद्द्विजसत्तमान्
तस्माद्यत्नेन विधिवत्पूजयेत द्विजान्सदा
प्रोक्षणं च ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः