इह वामुत्र य वशी सर्वकामसमन्वितः
मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत्
त्रिःसप्तसंस्थास्ते यज्ञास्त्रैलोक्यं धार्यते तु यः
दिवि च भ्राजतेलक्ष्म्या मोक्षं च लभते क्रमात्
अश्वमेधफलं ह्येत्तद्द्विजैः संस्कृत्य पूजितम्
देंवतेभ्यः पितृभ्यश्च महायोगिभ्य एव च
आद्धे ऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा
क्षिप्रमायान्ति पितरो रक्षांसि प्रद्रवन्ति च
पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः
वीर्यशौर्यार्थसत्त्वाशीरायुर्बुद्धिविवर्द्धनम्
सप्तर्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम्
नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम्
सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान्
तान्नमस्कृत्य सर्वान्वै पितृमत्सु विधिष्वपि
द्यावापृथिव्योश्च सदा नामस्यामि कृताञ्जलिः
त्रातारः सर्वभूतानां नमस्यामि पितामहान्
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः
स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे
अन्नमायुः सुताश्चैव ददते पितरो भुवि
सप्तार्चि षं जपेद्यस्तु नित्यमेव समाहितः
यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा
क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम्
पलाशे ब्रह्मवर्चस्त्वमश्वत्थे वसुभावना
पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः
सौभाग्यमुत्तमं लोके माधूके समुदात्दृतम्
परां द्युतिमथार्केतु प्राकाश्यं च विशेषतः
क्षेत्रारामतडागेषु सर्वसस्येषु चैव ह
एतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः
पितृभ्यः पुष्पमाल्यानि सुगन्धानि च तत्परः
गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति