पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः
देवकार्यादपि सदा पितृकार्यं विशिष्यते
न हि योग गतिः सूक्ष्मा पितॄणां न पितृक्षयः
इत्येते पितरश्चैव लोका दुहितरश्च वै
चत्वारो मूर्तिमन्तस्तु त्रयस्तेषाममूर्तयः
भक्त्या प्राञ्जलयः सर्वेसेंद्रास्तद्गतमानसाः
कृष्णाः श्वेतांबुजाश्चैव विधिव त्पूजयन्त्युत
मेघाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः
यक्षा नागाः सुपर्णाश्च किन्नरा राक्षसैः सह
एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः
हित्वा त्रैलोक्यसंसारं जरामृत्युमयं तथा
कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः
योगैश्वर्यमृते मोक्षः कथञ्चिन्नोपपद्यते
वरिष्ठः सर्वधर्माणां मोक्षधर्मः सनातनः
मुक्तावैडूर्यवासांसि वाजिनागायुतानि च
हंसबर्हिणयुक्तनि मुक्तावैढूर्यवन्ति च
विमानानां सहस्राणि युक्तान्यप्सरसां गणैः
प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे पितृराज्य कल्पो नाम दशमो ऽध्यायः
राजतस्य कथावापि दर्शनं दान मेव वा
पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत
स्वधां वा पार्थिभिस्तात तस्मिन् दत्तं तदक्षयम्
रक्षोघ्नं ब्रह्म वर्चस्यं पशून्पुत्रांश्च तारयेत्
वस्तूनि पावनीयानि त्रिदण्डीयोग एव वा
आयुःकीर्तिप्रजैश्वर्यप्रज्ञासंततिवर्द्धनः
सर्वतो ऽरत्निमात्रं च चतुरस्रं सुसंस्थितम्
धन्यमायुष्यमारोग्यं बलवर्णविवर्द्धनमा
अरत्निमात्रास्ते कार्या रजतैः प्रविभूषिताः
प्राग्दक्षिणमुखान्कुर्यात्स्थिरानशुषिरांस्तथा
पयसा ह्याज गव्येन शोधनं चाद्भिरेव च