व्यभिचारात्पितॄणां त्वं प्राप्स्यसे जन्म कुत्सितम्
कन्या भूत्वा ततश्च त्वमिमांल्लोकानवाप्स्यसि
अद्रिकायाः सुता मत्स्या सुता जाता ह्यमावसोः
तस्या राज्ञो हि सा कन्या राज्ञो वीर्येण चैव हि
एतेषां मानसी कन्या पीवरी नाम विश्रुता
भविता द्वापरं प्राप्य अष्टाविंशतिमेव तु
व्यासादरण्यां संभूतो विधूम इव पावकः
स तस्यां पितृकन्यायां पीवर्यां जनयद्विभुः
कृष्णा गौरं प्रभुं शंभुं तथा भूरिश्रुतं च वै
ब्रह्मदत्तस्य चननी महिषी त्वणुहस्य सा
सर्वव्यापी विनिर्मुक्तो भविष्यति महामुनिः
तान्वक्ष्यामि द्विजश्रेष्ठाः प्रभामूर्त्तिमतो गणान्
पितरो देवलोकेषु ज्योतिर्भासिषु भास्वराः
एतेषां मानसी कन्या योगोत्पत्तिरितिश्रुता
एकशृङ्गेति विख्याता भृगूणां कीर्तिवर्द्धिनी
एते ह्यङ्गिरसः पुत्राः साध्यैः संवर्द्धिताः पुरा
तान्क्षत्रियगणाः सप्त भावयन्ति फलार्थिनः
मता या जननी देवी खट्वाङ्गस्य महात्मनः
अग्नेर्जन्म तदा दृष्ट्वा शाण्डिल्यस्य महात्मनः
सत्यव्रतं महात्मानं ते ऽपि स्वर्गजितो नराः
समुत्पन्नस्य पुलहादुत्पन्नास्तस्य ते सुताः
एतान्वैश्यगणाः श्राद्धे भाव यन्ति फलार्थिनः
ययातेर्जननी साध्वी पत्नी सा नहुषस्य च
हैरण्यगर्भस्य सुताः शूद्रास्तां भावयन्त्युत
एतेषां मानसी कन्या नर्मदा सरितां वरा
जननी सात्रसद्दस्योः पुरुकुत्सपरिग्रहः
मन्वन्तरादौ श्राद्धानि प्रवर्तयति सर्वशः
तस्मादेतत्स्वधर्मेण देयं श्राद्धं च श्रद्धया
दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन्
सोमश्चाप्यायनं कृत्वा ह्यगनेर्वेवस्वतस्य च