अभिषेकप्रयाताभिर्दृष्टो वर्ज्य त्वरुन्धतीम्
स्निह्यमानाभिरत्यर्थं स्वकभिरिव मातृभिः
षण्मुखान्यसृजच्छ्रीमांस्तेनायं षण्मुखः स्मृतः
स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान्
कार्त्तिकेय इति ख्यातस्तस्मादसुरसूदनः
मुखाद्विनिर्गता तस्य स्वशक्तिरपराजिता
गरुडादतिसृष्टौ हि पक्षिणौ द्वौ प्रभद्रकौ
यस्य दत्ता सरस्वत्या महावीणा महास्वना
मायाविहरणे विप्र गिरौ क्रैञ्चे निपातिते
सेंद्रोपेन्द्रैर्महाभागैर्देवैरग्निसुतः प्रभुः
देवसेनापतिस्त्वेष पठ्यते सुरनायकः
प्रमथैर्विधैर्देवस्तथा भूतगणैरपि
लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः
श्रुता बर्हिषदो नाम पितरः सोमपास्तु ते
अच्छौदं नाम तद्दिव्यं सरो यस्मात्समुत्थिता
संभूता मानसी तेषां पितॄन्स्वान्नाभिजानती
अमावसुमिति ख्यातमैलपुत्रं नभश्चरम्
सा तेन व्यभिचारेण गगने नाप्रजारिणी
त्रीण्यवश्यद्विमानानि पतन्ती सा दिवश्च्युता
सुसूक्ष्मानपरिव्यक्तानग्नीनग्निष्विवाहितान्
तैरुका सा तु मा भैषी रित्यतो ऽधिष्ठिताभवत्
ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात्
यैराचरन्ति कर्मणि शरीरैरिह देवताः
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे
इत्युक्तया तु पितरः पुनस्ते तु प्रसादिताः
उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा
पराशरस्य दायादमृषिं त्वं जनयिष्यसि
महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्त्तिवर्द्धनौ
चित्राङ्गदं च राजानं सर्वसत्त्वबलान्वितम्