पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता
इत्येता वै महाभागाः कन्या हिमवतः शुभाः
अन्योन्यप्रीतमनसोरुमाशङ्करयोरथ
ताभ्यां मैथुनशक्ताभ्यामपत्योद्भवभीरुणा
अनायो रतिविघ्नं च त्वमाचर हुताशन
इत्येवमुक्ते तु तदा वह्निना च तथा कृतम्
ततो रुषितया सद्यः शप्तो ऽग्निरुमया तया
यस्मान्नाववितृप्ताभ्यां रतिविघ्नं हुताशन
यदेवं विगतं गर्भं रौद्रं शुक्रं महाप्रभम्
स शापदोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः
स गङ्गामभिगम्याह श्रूयतां सरिदुत्तमे
मद्धितार्थ मथो गर्भमिमं धारय निम्नगे
तथेत्युक्त्वा तदा सा तु संप्रत्दृष्टा महानदी
सापि कृच्छ्रेण महता खिद्यमाना महानदी
रुद्राग्निगङ्गातनयस्तत्र जातो ऽरुणप्रभः
तस्मिञ्जाते महाभागे कुमारे जाह्नवीसुते
देवदुन्दुभयो नेदुराकाशे मधुरस्वनाः
जगुर्गन्धर्वमुख्याश्च सर्वशस्तत्र तत्र ह
महानागसहस्राणि प्रवराश्च पतत्र्रिणः
प्रभावेण हतास्तेन दैत्यवानरराक्षसाः
अभिषेकप्रयाताभिर्दृष्टो वर्ज्य त्वरुन्धतीम्
स्निह्यमानाभिरत्यर्थं स्वकभिरिव मातृभिः
षण्मुखान्यसृजच्छ्रीमांस्तेनायं षण्मुखः स्मृतः
स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान्
कार्त्तिकेय इति ख्यातस्तस्मादसुरसूदनः
मुखाद्विनिर्गता तस्य स्वशक्तिरपराजिता
गरुडादतिसृष्टौ हि पक्षिणौ द्वौ प्रभद्रकौ
यस्य दत्ता सरस्वत्या महावीणा महास्वना
मायाविहरणे विप्र गिरौ क्रैञ्चे निपातिते
सेंद्रोपेन्द्रैर्महाभागैर्देवैरग्निसुतः प्रभुः