उपोद्धातपादे पितृकल्पो नाम नवमो ऽध्यायः
चत्वारो मुर्त्तिमन्तश्च त्रयस्तेषाममूर्त्तयः
यावै दुहितरस्तेषां दौहित्राश्चेव ये स्मृताः
अमूर्त्तयः पितृगणास्ते वै पुत्राः प्रजापतेः
एते वै पितरस्तात योगानां योगवर्धनाः
श्राद्धैराप्यायितास्ते वै सोममाप्याययन्ति च
एतेषां मानसी कन्या मेना नाम महागिरेः
पर्वतप्रवरः सो ऽथ क्रैञ्चश्चास्य गिरेः सुतः
अपर्णामेकपर्णां च तृतीयामेकपाटलाम्
आशिते द्वे अपर्णा तु ह्यनिकेता तपो ऽचरत्
आहारमेकपर्णेन ह्येकपर्णा समाचरत्
पूर्णे वर्षसहस्रे द्वे चाहारं वै प्रजक्रतुः
निषेधयन्ती सोमेति मातृस्रेहेन दुःखिता
उमेति हि महाभागा त्रिषु लोकेषु विश्रुता
एतत्तु त्रिकुमारीकं जगत्स्थावरजङ्ग मम्
तपःशरीरास्ताः सर्वास्थिस्रो योगबलान्विताः
सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः
महायोगबलोपेता महादेवमुपस्थिता
असितस्यैकपर्णा तु पत्नी साध्वी पतिव्रता
देवलं सुषुवे सा तु ब्रह्मिष्ठं ज्ञानसंयुता
पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता
इत्येता वै महाभागाः कन्या हिमवतः शुभाः
अन्योन्यप्रीतमनसोरुमाशङ्करयोरथ
ताभ्यां मैथुनशक्ताभ्यामपत्योद्भवभीरुणा
अनायो रतिविघ्नं च त्वमाचर हुताशन
इत्येवमुक्ते तु तदा वह्निना च तथा कृतम्
ततो रुषितया सद्यः शप्तो ऽग्निरुमया तया
यस्मान्नाववितृप्ताभ्यां रतिविघ्नं हुताशन
यदेवं विगतं गर्भं रौद्रं शुक्रं महाप्रभम्
स शापदोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः