शर इत्येष शीर्णे तु नानार्थो धातुरुच्यते
तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणो ऽहनि
ततस्तु सलिले तास्मिन्नष्टाग्नौ पृथवीतले
एतेनाधिष्ठितं हीदं ब्रह्मा स पुरुषः प्रभुः
एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे
इमं चोदाहरन्त्यत्रर् श्लोकं नारायणं प्रति
आपूर्यमाणास्तत्रास्ते तेन नारायणः स्मृतः
सहस्रबाहुः प्रथमः प्रजापतिस्त्रयीमयो ऽयं पुरुषो निरुच्यते
हिरण्य गर्भः पुरुषो महात्मा संपद्यते वै मनसः परस्तात्
कल्पान्ते तमसोद्रिक्तः कालो भूत्वाग्रसत्पुनः
त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्त्तते
एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे
ब्रह्मां नारायणाख्यस्तु स चकाशे भवे स्वयम्
पश्यन्ति तं महर्लोके कालं सुप्तं महर्षयः
तदा विवर्त्यमानैस्तैर्महत्परिगतं पराम्
यस्मादृषतिसत्त्वेन महत्तस्मान्महर्षयः
सत्त्वाद्याः सप्त ये त्वासन्कल्पे ऽतीते महर्षयः
दृष्टवन्तस्तदानीताः कालं सुप्तं महर्षयः
कल्पया मास वै ब्रह्मा तस्मात्कल्पो निरुच्यते
व्यक्ताव्यको महादेवस्तस्य सर्वमिदं जगत्
सांप्रतं हि तयोर्मध्ये प्रागवस्था बभूव ह
सांप्रतं संप्रवक्ष्यामि कल्पमेतं निबोधत
शर्वर्यंते प्रकुरुते ब्रह्मा तूत्सर्गकारणात्
अन्धकारार्णवे तस्मिन्नष्टे स्थावरजंगमे
प्रविभागेन भूतेषु सत्यमात्रे स्थितेषु वा
तदा कामेन तरसामन्यामानःस्वयं धिया
ततस्तु सलिले तस्मिन् ज्ञात्वा त्वन्तर्गतो महीम्
चकार तं तु देवो ऽथ पूर्वकल्पादिषु स्मृतः
अद्भिः संछादितामिच्छन् पृथिवीं स प्रजापतिः
सामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च