लोके वर्षन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसंभवः
आप्याययन्ति ते यस्मात्सोमं चान्नं च योगतः
मनोजवाः स्वधाभक्ष्यः सर्वकामपरिष्कृताः
एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान्
ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः
व्यक्ताव्यक्तं परित्यज्य महायोगबलेन च
उत्सृज्य देहजालानि महायोगबलेन च
क्रियया गुरुपूजाभिर्यागं कुर्वन्ति यत्नतः
आप्याययन्ति योगेन त्रैलोक्यं येन जीवति
पितॄणां हि बलं योगो योगात्सोमः प्रवर्त्तते
एकस्तानपि मन्त्रज्ञः सर्वानर्हति तच्छृणु
एकस्तान्स्नातकः प्रितः सर्वानर्हति तच्छृणु
योगाचार्येण यद्भुक्तं त्रायते महातो भयात्
ब्रह्मचारिसहस्रेण योग एव विशिष्यते
नान्यत्र तारणं दानं योगेष्वाह प्रजापतिः
पुत्रो वाप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति
तदलाभे उदसीनं गूहस्थमपि भोजयेत्
ध्यानयोगी परस्तस्मादिति ब्रह्मानुशासनम्
भावयन्सर्वलोकान्वै स्थित एष गणः सदा
संततिं संस्थितिं चैव भावनां च यथाक्रमम्
उपोद्धातपादे पितृकल्पो नाम नवमो ऽध्यायः
चत्वारो मुर्त्तिमन्तश्च त्रयस्तेषाममूर्त्तयः
यावै दुहितरस्तेषां दौहित्राश्चेव ये स्मृताः
अमूर्त्तयः पितृगणास्ते वै पुत्राः प्रजापतेः
एते वै पितरस्तात योगानां योगवर्धनाः
श्राद्धैराप्यायितास्ते वै सोममाप्याययन्ति च
एतेषां मानसी कन्या मेना नाम महागिरेः
पर्वतप्रवरः सो ऽथ क्रैञ्चश्चास्य गिरेः सुतः
अपर्णामेकपर्णां च तृतीयामेकपाटलाम्
आशिते द्वे अपर्णा तु ह्यनिकेता तपो ऽचरत्