तस्मात्ते पितरः पुत्राः पितृत्वं तेषु तत्स्मृतम्
व्याजहार पुनर्ब्रह्मा वितॄनात्मविवृद्धये
राक्षसा दानवाश्बैव फलं प्राप्स्यन्ति तस्य तत्
आप्यायमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यशः
कृत्स्नं सपर्वतवनं जङ्गमाजङ्गमैर्वृतम्
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा
सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः
एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना
ते तु ज्ञानप्रदातारः पितरो वो न संशयः
अन्योन्यपितरो ह्येते देवाश्च पितरश्च ह
पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम्
पूर्वे तु देवप्रवरा देवानां सोमवर्द्धनाः
शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम्
पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः
समुद्भूताः कथं चैते पितृत्वं समुपागताः
क्रियाश्च सर्वा वर्त्तन्ते श्राद्धपूर्वा महात्मनाम्
केषु चाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च
कश्च कालो भवेच्छ्राद्धे विधिः कश्चानुवर्त्तते
व्याख्यातमानुपूर्व्येण यत्र चोदाहृतं मया
व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः
विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम्
सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च
ब्रह्मैको दुश्चरं तत्र तताप परमं तपः
कीदृशं सर्वभूतेशस्तपस्तेपे प्रजा पतिः
ध्यायंस्तदा स भगवांस्तेन लोकानवासृजत्
योगामृतास्तदा सृष्टा ब्रह्मणा लोकचक्षुषा
देवानसृजत ब्रह्मा योगयुक्तान्सनातनान्
सर्वकामप्रदाः पूज्या देवादानवमानवैः
अमूर्त्तयस्त्रयस्तेषां चत्वारस्तु समूर्त्तयः
तेषामधस्ताद्वर्त्तन्ते चत्वारः सूक्ष्ममूर्त्तयः