स्वर्गे वै पितरो ह्येते देवानामपि देवताः
यथा च दत्तमस्माभिः सार्द्धं प्रीणाति वै पितॄन्
स्वर्गे तु के च वर्त्तन्ते पितरो नरके व के
प्रतितामहं तथा चैव त्रिषु पिण्डेषु नामतः
कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः
देवा अपि पितॄन् स्वर्गे यजन्तीति हि नः श्रुतम्
स्पष्टाभिधान मपि वै तद्भवान्वक्तुमर्हसि
मन्वन्तरेषु जायन्ते पितरो देवसूनवः
देवैः सार्द्धं पुरातीताः पितरो ऽन्येन्तरेषु वै
श्राद्धक्रियां मनुश्चैषां श्राद्धदेवः प्रवर्त्तयेत्
तमुत्सृज्य तदात्मानमयजंस्ते फलार्थिनः
तस्मात्किञ्चिन्न जानीत ततो लोकेषु मुह्यत
अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः
पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ
अपृच्छन्संयतात्मानो विधिवच्च मिथो मिथः
प्रयश्चित्तानि धर्मज्ञावाङ्मनः कर्मजानि च
यूयं वै पितरो ऽस्माकं यैर्वयं प्रतिबोधिताः
पुस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः
उक्तं च पितरो ऽस्माकं चेति वै तनयाः स्वकाः
तेनैव वचसा ते वै ब्रह्मणः परमेष्ठिनः
तस्मात्ते पितरः पुत्राः पितृत्वं तेषु तत्स्मृतम्
व्याजहार पुनर्ब्रह्मा वितॄनात्मविवृद्धये
राक्षसा दानवाश्बैव फलं प्राप्स्यन्ति तस्य तत्
आप्यायमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यशः
कृत्स्नं सपर्वतवनं जङ्गमाजङ्गमैर्वृतम्
तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा
सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः
एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना
ते तु ज्ञानप्रदातारः पितरो वो न संशयः
अन्योन्यपितरो ह्येते देवाश्च पितरश्च ह