अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः
स तासु जनयामास पुत्रानात्मसमानकान्
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः
दत्तो ह्यनुमतो ज्येष्ठो दुर्वासास्तस्य चानुजः
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा
दत्तात्रेयं तनुं विषणोः पुराणज्ञाः प्रजक्षते
श्यावाश्वा मुद्गलाश्चैव वाग्भूतकगवि स्थिराः
काश्यपो नारदश्चैव पर्वतो ऽरुन्धती तथा
नारदस्तु वसिष्ठायारुन्धती प्रत्यपादयत्
पुरा देवासुरे तस्मिन्संग्रामे तारकामये
वसिष्ठस्तपसा धीमाञ्जीवयामास वै प्रजाः
तास्तेन जीवयामास कारुण्यादौषधेन सः
स्वाङ्गज जनयच्छक्तिरदृश्यन्त्यां पराशरम्
द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः
भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः
जननी ब्रह्मदत्तस्य पत्नी सा त्वणुहस्य च
ऊष्मादा दारिकाश्चैव नीलाश्चैव पराशराः
अत ऊर्द्ध्व निबोध त्वमिन्द्रप्रमति संभवम्
कुणीति यः समाख्यात इन्द्रप्रमतिरुच्यते
उपमन्युः सुतस्तस्य यस्येमे ह्यौपमन्यवः
एकार्षेयास्तथा चान्ये वसिष्ठा नाम विश्रुताः
इत्येते ब्रह्मणः पुत्रा मानसा अष्ट विश्रुताः
त्रींल्लोकान्धारयन्तीमान्देवर्षिगणसंकुलान्
व्याप्ता येस्तु त्रयो लोकाः सूर्यस्येव गभस्तिभिः
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे ऋषिवंशवर्णनं नामाष्टमो ऽध्यायः
आसीद्दाक्षायणी पूर्वमुमा कथमजायत
के वै ते पितरो नाम येषां मेना तु मानसी
एकपर्णा तथा चैव तथा चैवैकपाटला
सर्वमेतत्वयोद्दिष्टं निर्देशं तस्य नो वद
पुत्राश्च के स्मृतास्तेषां कथं च पितरस्तु ते