वेदाध्ययनशीलानां तपोव्रतनिषेविणाम्
इतरे ये यज्ञजुषस्ते वै रक्षोगणास्त्रयः
निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः
इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः
वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः
आकर्णा हारितस्याश्च मुञ्जधूम्रोर्ध्वमूर्धजाः
ताम्रास्या लंबजिह्वोष्ठा लंबभ्रूस्थूलनासिकाः
महाघोरस्वराश्चैव विकटोद्बद्धपिण्डिकाः
दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्मिणः
विचित्राभरणाश्चित्रमाल्यगन्धानुलेपनाः
इत्येतद्रूपसाधर्म्यं राक्षसानां स्मृतं बुधैः
पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः
वानराः किन्नराश्चेव मायुः किंपुरुषास्तथा
अनपत्यः क्रतुर्ह्यस्मिन्स्मृतो वैवस्वतेंऽतरे
अत्रेर्वशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः
बद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः
बला हला च सप्तैता या च गोचपलाः स्मृताः
तत्र यो वंशकृच्चासौ तस्य नाम प्रभाकरः
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम्
स्वस्ति तेस्त्विति चौक्तो वै पतन्निह दिवाकरः
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः
स तासु जनयामास पुत्रानात्मसमानकान्
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः
दत्तो ह्यनुमतो ज्येष्ठो दुर्वासास्तस्य चानुजः
अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा
दत्तात्रेयं तनुं विषणोः पुराणज्ञाः प्रजक्षते
श्यावाश्वा मुद्गलाश्चैव वाग्भूतकगवि स्थिराः
काश्यपो नारदश्चैव पर्वतो ऽरुन्धती तथा
नारदस्तु वसिष्ठायारुन्धती प्रत्यपादयत्
पुरा देवासुरे तस्मिन्संग्रामे तारकामये