वत्सारश्चासितश्चैव तावुभौ ब्रह्म वादना
रेभ्यस्य रैभ्यो विज्ञेयो निध्रुवस्य निबोधत
निध्रुवस्य तु या पत्नी माता वै कुण्डपायिराम्
शाण्डिल्यानां वरः श्रीमान् देवलः सुमहायशाः
वज्रिप्रभृतयो देवा देवास्तस्य प्रजा स्विमाः
अथावशिष्टे तस्मिंस्तु द्वापरे संप्रर्त्तिते
राज्यवर्द्धनकस्तस्य सुधृतिस्तत्सुतो नरः
बुधस्तस्या भवद्यस्या तृणबिन्दुर्महीपतिः
तस्य चेलविला कन्यालंबुषागर्भसंभवा
बृहस्पतिबृर्हत्कीर्तिर्देवाचार्यस्तु कीर्त्तितः
पुष्पोत्कटां च वाकां च सुते माल्यवतस्तथा
ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी
राक्षसेन च रूपेण आसुरेण बलेन च
अष्टदंष्ट्रं हरिछ्मश्रुं शङ्कुकर्णं विलोहितम्
वैवर्त्तज्ञानसंपन्नं संबुद्धं चैव संभवात्
कुत्सायां क्विति शब्दो ऽयं शरीरं बेरमुच्यते
यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव
ऋद्रयां कुबेरो ऽजनयद्विश्रुतं नलकूबरम्
विभीषणचतुर्थांस्तु कैकस्यजनयत्सुतान्
चतुष्पाद्विंशतिभुजो महाकायो महाबलः
राक्षसेनौजसा युक्तो रूपेण च बलेन च
विसर्गदारुणः क्रूरो रावणो द्रावणस्तु सः
चतुर्युगानि राजाभूत् त्रयोदश स राक्षसः
नियुतान्येकषष्टिं च शरदां गणितानि वै
देवतानामृषीणां च घोरं कृत्वा प्रजागरम्
रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान्
पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा
कन्यानुपालिका चैव वाकायाः प्रसवः स्मृतः
दारुणाभिजनाः सर्वे देवैरपि दुरासदाः
यक्षाणां चैव सर्वेषां पौलस्त्या चे च राक्षसाः