शैलानां हिमवन्तं च नदीनामथ सागरम्
उच्चैःश्रवसमश्वानां राजानं चाभ्यषेचयत्
पक्षिणामथ सर्वेषां गरुडं पततां वरम्
समकालबलानां च वायुं बलवतां वरम्
सरीसृपाणां सर्पाणां पन्नगानां च तक्षकम्
आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान्
ऋतूनामथ मासानामार्त्तवानां तथैव च
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा
प्रजापतेर्विरजसः पूर्वस्यां दिशि विश्रुतम्
दक्षिणास्यां दिशि तथा कर्दमस्य प्रजापतेः
पस्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम्
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः
मनुष्याणामधिपतिं चक्रे वैवस्वतं मनुम्
यथाप्रदेशमद्यापि धर्मेण परिपाल्यते
नृपाश्चैते ऽभिषिच्यन्ते मनवो ये भवन्ति वै
एवमन्ये ऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः
राजसूये ऽभिषिक्तश्च पृथु रेभिर्नरोत्तमः
एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात्
कश्यपो गोत्रकामस्तु चचार परमं तपः
तस्यप्रध्यायमानस्य कश्यपस्य महात्मनः
वत्सारश्चासितश्चैव तावुभौ ब्रह्म वादना
रेभ्यस्य रैभ्यो विज्ञेयो निध्रुवस्य निबोधत
निध्रुवस्य तु या पत्नी माता वै कुण्डपायिराम्
शाण्डिल्यानां वरः श्रीमान् देवलः सुमहायशाः
वज्रिप्रभृतयो देवा देवास्तस्य प्रजा स्विमाः
अथावशिष्टे तस्मिंस्तु द्वापरे संप्रर्त्तिते
राज्यवर्द्धनकस्तस्य सुधृतिस्तत्सुतो नरः
बुधस्तस्या भवद्यस्या तृणबिन्दुर्महीपतिः
तस्य चेलविला कन्यालंबुषागर्भसंभवा
बृहस्पतिबृर्हत्कीर्तिर्देवाचार्यस्तु कीर्त्तितः