इरानुग्रहशीला तु ह्यनायुर्भक्षणे रता
धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः
मातुस्तुल्याभिजाताश्च कश्यपस्यात्मजाः प्रभोः
पिशाचाः पशवश्चैव मृगाः पतगवीरुधः
मनुष्यप्रकृतीस्तस्माद्देवादींश्च विजानते
मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः
ततोर्ऽवाक्स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः
इत्येष वंशप्रभवः प्रसंख्यातस्तु विस्तरात्
यक्षरक्षः पिशाचानां सुपर्णोरगपक्षिणाम्
कृमिकीटपतङ्गानां क्षुद्राणां जलचारिणाम्
श्रोतव्यश्चैव सततं ग्राह्यश्चैवानसूयतः
अपत्यलाभं लभते च पुष्कलं प्रियं धनं प्रेत्य च शोभनां गतिम्
प्रतिष्ठितासु सर्वासु चरासु स्थावरासु च
ततः क्रमेण राज्यानि आदेष्टुमुपचक्रमे
यज्ञानां तपसां चैव सोमं राज्ये ऽभ्यषेचयत्
भृगूणामधिपं चैव काव्यं राज्ये ऽभ्यषेचयत्
प्रजापतीनां दक्षं च मरुतामथ वासवम्
नारायणं तु साध्यानां रुद्रणां च वृषध्वजम्
अपां च वरुणं राज्ये राज्ञां वैश्रवणं तथा
वैवस्वतं पितॄणां च यमं राज्ये ऽभ्यषेचयत्
शैलानां हिमवन्तं च नदीनामथ सागरम्
उच्चैःश्रवसमश्वानां राजानं चाभ्यषेचयत्
पक्षिणामथ सर्वेषां गरुडं पततां वरम्
समकालबलानां च वायुं बलवतां वरम्
सरीसृपाणां सर्पाणां पन्नगानां च तक्षकम्
आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान्
ऋतूनामथ मासानामार्त्तवानां तथैव च
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा
प्रजापतेर्विरजसः पूर्वस्यां दिशि विश्रुतम्
दक्षिणास्यां दिशि तथा कर्दमस्य प्रजापतेः