एवमादिरसंख्यातो गणः संस्वेदजो मया
ये चान्ये नैरृताः सत्त्वास्ते स्मृता उपसर्गजाः
प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः
दुल्लोलकं ललोहं च सरमा द्वौ व्यजायत
श्यामाश्च शबलाश्चैव लोहिता अञ्जनास्तथा
सर्पाणां सुरसा जज्ञे शन्त नैकशिरोभृताम्
तमोबहुल इत्येष गणः क्रोधवशान्वयः
षट् कन्यास्त्वभिविख्यातास्ता म्रायाश्च विजज्ञिरे
अरुणस्य च गृद्री तु वीर्यवन्तौ महाबलौ
संपातेर्विजयाः पुत्रा द्विरास्याः प्रसहश्च ये
भार्या गरुत्मतश्चैव भासी क्रैञ्ची तथा शुकी
शुकीगरुत्मतः पुत्रान्सुषुवे षट् परिश्रुतान्
तेषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम्
पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरैः
शाल्मलिद्वीपमखिलं देवकूटं च पर्वतम्
पर्णमालं सुकेशं च शतशृङ्गं तथाचलम्
प्रचण्डवायुप्रजवैर्दीपितैः पद्मरागिभिः
भासीपुत्राः स्मृता भासा उलूकाः काककुक्कुटाः
क्रैञ्चा वाध्रीणसाः श्येनाः कुरराः सारसा बकाः
धृतराष्ट्री तु हंसाश्च कलहंसांश्च भामिनी
श्येन्यनन्तं विजज्ञे तु पुत्रपौत्रं द्विजोत्तमाः
इरा विजज्ञे कन्या वै तिस्रः कमललोजनाः
लता चैवालता चैति वीरुधा चैति तत्र या
पुष्पैः फलग्रहैर्वृक्षानलता समसूयत
वीरुधस्तदपत्यं हि वंशश्चात्र समाप्यते
तेषां पुत्राश्च पौत्राश्च यैरिदं संततं जगत्
मारीचो वः प्रजासर्गः समासेन प्रकीर्त्तितः
अदितिर्धर्मशीला तु बलशीला दितिस्तथा
गन्धशीला मुनिश्चैव क्रोधाध्यायनशीलिनी
क्रोधशीला तथा कदूः क्रोधा च शुचिशीलिनी