आरभ्यन्ते क्रियायास्तु पिशाचास्तत्र दैवतम्
धूपैर्हारिद्रकृसरैस्तिलभक्षगुडौदनैः
एवसुक्तास्तु बलयस्त्वेषां वै पर्वसंधिषु
सर्वभूतपिशाचानां गिरीणां शूलपाणिनाम्
द्वीपिनश्च सुतास्तस्याः श्वापदाश्चामिषाशिनः
तस्या दुहितरः पञ्च तासां नामानि मे शृणु
अनुवृत्ता च विज्ञेया तासां वै शृणुत प्रजाः
इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते
उग्राश्च शिशुमाराश्चामीनाश्चैतान्व्यजायत
तथा शङ्खविकाराणि जनयामास नैकशः
ऐणेयानां विकाराणि शंबूकानां तथैव च
तथा शङ्खविकाराणि परिवृत्ता व्यजायत
इत्येष हि ऋषावंशः पञ्चशाखः प्रकीर्त्तितः
संस्वेदजविकाराणि यथा येभ्यो भवन्ति ह
मनुष्यस्वेदमलजा उशना नाम जन्तवः
शङ्खोपलविकाराणि कीलकावरकाणि च
यथा घर्मदितप्पाभ्यश्चाभ्द्यो वृष्टिभ्य एव
मक्षिकाः पिच्छला देशास्तथा तित्तिरिपुत्तिकाः
जलजाः स्वेदजाश्चैव जायन्ते जन्तस्त्विमे
सिंहला रोमलाश्चैव पिच्छिलाः परिकीर्त्तिताः
शिंबिभ्यो माषमुद्गानां जायन्ते कृमयस्तथा
मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च
अन्येभ्यो ऽपि च जायन्ते न हि तेभ्यश्चिरं सदा
बहून्यहानि निक्षिप्ते संभवन्ति च गोमये
संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात्
मत्स्याद्यिश्च विविधा अन्नकूटे विशेषतः
तथन्यानि च सक्ष्माणि जलौकादीनि जातयः
माक्षिकाणां विकाराणि जायन्ते जातयो ऽपरे
मशकानां विकाराणि भ्रमराणां तथैव च
मणिच्छेदाः स्मृता व्यालाः पोतजाः परिकीर्त्तिताः