ज्ञेया वक्राः पिशाचास्ते वक्रगाः कामरूपिणः
नितुन्दकाः पिशाचास्ते तिलभक्षाः प्रियासृजाः
पिशाचार् कमर्कास्ते वृक्षवासोदनप्रियाः
मुञ्चन्ति पांशुमङ्गेभ्यः पिशाचाः पांशवस्तु ते
उपवीराः पिशाचास्ते श्मशानायतनाः सदा
उलूखलैराभरणा रत्नधाराश्च ते खलाः
हस्त्युष्ट्रस्थूलशिरसो विनतोद्धतपिण्डिकाः
सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति ये
आकर्णाद्दारितास्याश्च लंबभ्रूस्थूलनासिकाः
हस्तपादाक्रान्ततुण्डा ह्रस्वकाः क्षितिदृष्टयः
पृष्ठतः पाणि पादाश्च पृष्ठतो वातरंहसः
नग्नका ह्यनिकेताश्च लंबशेफ आण्डपिडकाः
षोडशैता हि जात्यस्ताः पिशाचानां प्रकीर्त्तिताः
ब्रह्मा तेभ्यो वरं प्रादात्कारुण्यादल्पचेतसः
संध्ये उभे प्रचारं च स्थानान्याजीवमेव च
विध्वस्तानि च यानि स्युरनाचारोषिता नि च
राजमार्गोपरथ्याश्च निष्कुटाश्चत्वराणि च
पथो नद्यो ऽथ तीर्थानि चैत्यवृक्षा महापथम्
अधार्मिको जनस्तेषामा जीवो विहितः सुरैः
प्रकृतोपधिसंधानाश्चोरा विश्वासघातिनः
आरभ्यन्ते क्रियायास्तु पिशाचास्तत्र दैवतम्
धूपैर्हारिद्रकृसरैस्तिलभक्षगुडौदनैः
एवसुक्तास्तु बलयस्त्वेषां वै पर्वसंधिषु
सर्वभूतपिशाचानां गिरीणां शूलपाणिनाम्
द्वीपिनश्च सुतास्तस्याः श्वापदाश्चामिषाशिनः
तस्या दुहितरः पञ्च तासां नामानि मे शृणु
अनुवृत्ता च विज्ञेया तासां वै शृणुत प्रजाः
इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते
उग्राश्च शिशुमाराश्चामीनाश्चैतान्व्यजायत
तथा शङ्खविकाराणि जनयामास नैकशः