अपरेणतु लौहित्यमासिंधोः पश्चिमेन तु
भूता विजज्ञे भूतांस्तु रुद्रस्यानुचरानिह
लंबकर्णान्प्रलंबौष्ठान् लंबजिह्वांस्तनूदरान्
सकृष्णगौरान्नीलांश्च श्वेतान्वै लोहिताननान्
मुञ्जकेशान्त्दृष्टरोम्णः सर्वयज्ञोपवीतिनः
चण्डांश्च विकटांश्चैव निर्मितांश्च द्विजिह्वकान्
सरः श्रेष्ठसमुद्राद्रिनदीपुलिनसेविनः
दंष्ट्रिणो नखिनश्चैव निर्दन्तांश्च विजिह्वकान्
एकपादान्द्विपादांश्च त्रिपादान्बहुपादकान्
सर्वत्रगातप्रतिघातब्रह्मज्ञान्कामरूपिणः
कूटदन्तान्महाजिह्वान्विकेशान्विकृताननान्
धन्विनो मुद्गरधरा नसिशूलधरांस्तथा
अन्नादान्पिशितादांश्च सुरापान्सोमपांस्तथा
नक्तञ्चराः खरस्पर्शा घोरास्तेषां निशाचराः
नैषां भार्यास्ति पुत्रा वा सर्वे ते ह्यूर्ध्वरेतसः
भवपारिषदास्ते वै सर्वे भूताः प्रकीर्त्तिताः
मिथुनेन पिशाचांश्च वर्णेन कपिशेन तु
युग्मानि षोडशाद्यानि वर्त्तमानस्तदन्वयः
छगलश्छगला चैव वक्रो वक्रमुखी तथा
विपादश्च विपादी च ज्वाला चाङ्गारकस्तथा
उपवीरश्च वीरा च ह्युलूखल उलूखली
पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा
बालादः केषणादी च प्रस्कन्दः स्कन्दिका तथा
अजामुखा पक्रमुखाः पूरणः स्कन्दिनस्तथा
उपवीरोलूखलिका अर्कमर्काः कुषण्डिकाः
सूजीमुखोच्छेषणादाः कलान्येतानि षोडश
पिशाचास्ते पिशाच्यस्ताः सकुल्याः संप्रजज्ञिरे
अतस्तेषां पिशाचानां लक्षणानि निबोधत
तिर्य्यगङ्गाः पारुषदाः पिशाचास्ते ह्यजामुखाः
कुषण्डिकपिशाचास्ते प्रियभक्षाः सदामिषाः