विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः
ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्भवैश्चापरैर्जनैः
स्ततस्ते जनलोकाय सोद्वेगा दधिरे मनः
एवं देवयुगानां तु सहस्राणि परस्परम्
तैः कल्पवासिभिः सार्द्धं जन आसादितस्तु वै
गत्वा ते ब्रह्मलोकं वै अपरावर्त्तिनीं गतिम्
भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च
आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह
मानार्चनाभिः संबद्धास्तदा तत्कालभाविताः
तथातु भाविते सेवां तथानन्दः प्रवर्तते
तैः सार्द्ध वर्द्धते तेषां कार्याणि करणानि च
विनिवृत्ताधिकारणां स्वेन धर्मेण तिष्ठताम्
प्राकृते करणोपेताः स्वात्मन्येव व्यवस्थिताः
पुरुषान्यबहुत्वेन प्रतीता तत्प्रवर्तते
संयोगे प्रकृतिर्ज्ञैया मुक्तानां तत्त्वदर्शिनाम्
अभावः पुनरुत्पन्नः शान्तानामर्चिषामिव
एतैः सार्धं महर्लोकस्तदानासादितस्तु वै
गन्धर्वाद्याः पिशाचाश्च मानुषा ब्राह्मणादयः
तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु
तत्सप्तरश्मयो भूत्वा एकैको जायते रविः
जङ्गमाः स्थावराश्चैवनद्यः सर्वे च पर्वताः
तदा तु विवशाः सर्वे निर्दग्धाः सूर्यरश्मि भिः
दग्धदेहास्तदा ते तु धूतपापायुगान्तरे
ततस्ते ह्युपपद्यन्ते तुल्यरूपैर्जनैर्जनाः
पुनः सर्गे भवन्तीह मानसा ब्रह्मणः सुताः
निर्दग्धेषु च लोकेषु तदा सूर्यैस्तु सप्तभिः
सामुद्राश्चैव मेघाश्च आपः सर्वाश्च पार्थिवाः
आगतागतिकं चैव यदा तत्सलिलं बहु
आभाति यस्मात् स्वाभासो भाशब्दो व्याप्तिदीप्तिषु
तदन्तस्तनुते यस्मात्सर्वां पृथ्वीं समन्त ततः